SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ २३ December - 2003 षष्ठीसमासे आचारस्य लाजा: आचारलाजाः, तैः आचारार्थैः लाजैः आचारलाजैः । इव । अवाकिरन्। तस्योपरि निक्षिप्तवत्य ववृषुः इत्यर्थः । सखा हि सखायमागतमुपचरति, इति भावः । अत्र हि पूर्वश्लोके पाशभृता समस्येति कथनेन पाशभृतो वरुणस्य जलाधिष्ठातृत्वेन पाशभृत्प्रयुक्तजलधरागमे द्रुमाणां हर्षातिरेकः संजायते । तथा च हर्षातिरेके द्रुमाणां पक्षिणामप्युत्कटमदत्वं जायते, ततश्च ते स्वस्वध्वनिभिर्मधुरारावा: तन्वते इत्युत्प्रेक्षितम् । पार्श्वद्रुमास्तस्याऽऽलोकशब्दमुदीरयामासुरिति । जलधरागमेन लतादीनां हर्षातिरेकज्ञापकमुद्गमत्वं जायते, कुसुमोढ़ेदादिस्तु जलधरानन्तरमातपनिपातेनेति सम्भाव्यते । इत्यस्मिन् श्लोके मरुत्सखाभमिति राज्ञो विशेषणेन, यथाऽऽतपनिपातः कुसुमोढ़ेदादिहेतुः, तथाऽत्र दावे राज्ञ आगमनमस्माकं कुसुमितत्वे हेत्विवेति ताः प्रभूतहर्षातिरेकवत्यः कुसुमरूपैराचारलाजैर्वर्धापितवत्य इवेत्युत्प्रेक्षा ध्वनितेत्याभाति || वाच्यपरिवर्तनं त्वेवम्- मरुत्प्रयुक्ताभिः बाललताभिश्च मरुत्सखाभोऽर्थ्य आरादभिवर्तमानः स (नृपः) आचारलाजैः पौरकन्याभिरिव प्रसूनैरवाकीर्यत ॥ यथा हि तस्य नगरप्रवेशे पौरकन्यकाः तस्योपरि मङ्गलार्थान् निर्मलान लाजान् वर्षन्ति तथा वने वल्लयो मारुतान्दोलितैः शाखाकरैः पावकवत् तेजसस्तस्योपरि निर्मलानि पुष्पाणि समन्तात् किरन्ति स्म, इति सरलार्थः ॥१०॥ धनुर्भृतोऽप्यस्य दयाभावमाख्यातमन्तःकरणैर्विशङ्कः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥११॥ धनुर्भूत इति । धनतीति धनुः । धनुर्बिभर्तीति धनुर्भुत, तस्य धनुर्भृत:कोदण्डधारिणः । अपि । अस्य राज्ञः । एतेन भयसम्भावना दर्शिता । तथाऽपि विगता शङ्का एभ्यस्तानि विशङ्कानि, तैः विशङ्क:-निर्भीकैः । अन्तःकरणैः कर्तृभिः । दयया कृपारसेन आज़े भावोऽभिप्रायो यस्य तद् दयाभावम् । तद् आख्यायते स्मेति आख्यातम् - कथितम् । (दयार्द्रभावमेतदित्याख्यातमित्यर्थः) । "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः । तथाविधं वपुः-शरीरम् । "गात्रं वपुः संहननं शरीरं वर्ष विग्रहः" इत्यमरः । विलोकयन्तीति विलोकयन्त्यः - सादरं पश्यन्त्यः । हरिण्यः मृग्यः । अक्ष्णां नेत्राणाम् । "लोचनं नयनं १. अम० त० नानार्थवर्गे - २७५० । २. अम० द्वि० मनुष्यवर्गे - १२१४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229356
Book TitleRaghuvansh Dwitiya Sarga Tika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages93
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy