________________
२३
December - 2003 षष्ठीसमासे आचारस्य लाजा: आचारलाजाः, तैः आचारार्थैः लाजैः आचारलाजैः । इव । अवाकिरन्। तस्योपरि निक्षिप्तवत्य ववृषुः इत्यर्थः । सखा हि सखायमागतमुपचरति, इति भावः ।
अत्र हि पूर्वश्लोके पाशभृता समस्येति कथनेन पाशभृतो वरुणस्य जलाधिष्ठातृत्वेन पाशभृत्प्रयुक्तजलधरागमे द्रुमाणां हर्षातिरेकः संजायते । तथा च हर्षातिरेके द्रुमाणां पक्षिणामप्युत्कटमदत्वं जायते, ततश्च ते स्वस्वध्वनिभिर्मधुरारावा: तन्वते इत्युत्प्रेक्षितम् । पार्श्वद्रुमास्तस्याऽऽलोकशब्दमुदीरयामासुरिति । जलधरागमेन लतादीनां हर्षातिरेकज्ञापकमुद्गमत्वं जायते, कुसुमोढ़ेदादिस्तु जलधरानन्तरमातपनिपातेनेति सम्भाव्यते । इत्यस्मिन् श्लोके मरुत्सखाभमिति राज्ञो विशेषणेन, यथाऽऽतपनिपातः कुसुमोढ़ेदादिहेतुः, तथाऽत्र दावे राज्ञ आगमनमस्माकं कुसुमितत्वे हेत्विवेति ताः प्रभूतहर्षातिरेकवत्यः कुसुमरूपैराचारलाजैर्वर्धापितवत्य इवेत्युत्प्रेक्षा ध्वनितेत्याभाति ||
वाच्यपरिवर्तनं त्वेवम्- मरुत्प्रयुक्ताभिः बाललताभिश्च मरुत्सखाभोऽर्थ्य आरादभिवर्तमानः स (नृपः) आचारलाजैः पौरकन्याभिरिव प्रसूनैरवाकीर्यत ॥
यथा हि तस्य नगरप्रवेशे पौरकन्यकाः तस्योपरि मङ्गलार्थान् निर्मलान लाजान् वर्षन्ति तथा वने वल्लयो मारुतान्दोलितैः शाखाकरैः पावकवत् तेजसस्तस्योपरि निर्मलानि पुष्पाणि समन्तात् किरन्ति स्म, इति सरलार्थः ॥१०॥
धनुर्भृतोऽप्यस्य दयाभावमाख्यातमन्तःकरणैर्विशङ्कः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥११॥
धनुर्भूत इति । धनतीति धनुः । धनुर्बिभर्तीति धनुर्भुत, तस्य धनुर्भृत:कोदण्डधारिणः । अपि । अस्य राज्ञः । एतेन भयसम्भावना दर्शिता । तथाऽपि विगता शङ्का एभ्यस्तानि विशङ्कानि, तैः विशङ्क:-निर्भीकैः । अन्तःकरणैः कर्तृभिः । दयया कृपारसेन आज़े भावोऽभिप्रायो यस्य तद् दयाभावम् । तद् आख्यायते स्मेति आख्यातम् - कथितम् । (दयार्द्रभावमेतदित्याख्यातमित्यर्थः) । "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः । तथाविधं वपुः-शरीरम् । "गात्रं वपुः संहननं शरीरं वर्ष विग्रहः" इत्यमरः । विलोकयन्तीति विलोकयन्त्यः - सादरं पश्यन्त्यः । हरिण्यः मृग्यः । अक्ष्णां नेत्राणाम् । "लोचनं नयनं १. अम० त० नानार्थवर्गे - २७५० । २. अम० द्वि० मनुष्यवर्गे - १२१४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org