________________
July-2004
श्रीपार्श्वनाथस्तोत्रम् (सुन्दरीच्छन्दः)
॥ ॐ नमः ॥
अविकलं विकलंकमुनिः शिवं, विगतमो गतमोहभरः क्रियात् । विनयवन्ननयवन्नृभिरर्चितः प्रमददो मददोषमलोज्झितः ॥२॥
कलिकुमार्गकुमार्गमहामृगद्विपरिपोऽपरिपो परमं पदम् । वितरमे वरमे चरणाम्बुजे, रतिमतोऽममतो महितस्तव ॥४॥
असुमतः सुमतः शुभतीर्थपः सुमहसोऽमहसोज्झितमाधुपः । विदितजातिरऽजातिरतिः श्रियं, वितनुतात्तनुतामलदीधितिः ||६||
Jain Education International
जिनवरेन्द्रवरेन्द्रकृतस्तुते, कुरु सुखानि सुखानिरनेनसः ॥ भविजनस्य जनस्यदशर्मदः, प्रणतलोकतलोकभयापहः ॥१॥
मुनिजने निजनेमियुजा मुदं, वितरतातरता च भवांबुधिम् । अविरतं विरतं स ददातु शं, शिवरमावरमापि हि येन वै ॥३॥
सुरगुरूपमरूपमनोहरैः, प्रवरधीभिरधीभिरसंयुतैः । अभिनुतो भवतो भवतोऽवताज्जिनवरोमररोमरकापहृत् ॥५॥
For Private & Personal Use Only
31
www.jainelibrary.org