SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 30 अनुसन्धान-३८ यस्मादस्मादृशानामुपलसमधियां धर्मिताऽभूदकस्माज्जीयाज्जैनागमोऽयं निबिडतमतमःस्तोमतिग्मांशुबिम्बम् ॥११॥ निःशङ्का वीतपङ्का यदि हृदि भवतां सच्चिदानन्दवाञ्च्छा विज्ञाः सज्ज्ञातदृष्ट्या परिहरि(र)त तदाऽनल्पसङ्कल्पजालम् । सेवध्वं देवदेवं जिनवरमचिरानन्दनं सर्वदा यो द्वीपः संसारसिन्धौ त्रिभुवनभवनज्ञेयवस्तुप्रदीपः ।।१२।। सोऽपि स्वामिन् ! स्वभावात् सकृदपि भवतः पूजयन् पादपद्म प्राज्यं प्राप्नोति राज्यं निरुपमकमलां निर्मला चाप(पि) कीर्तिम् ।। विप्रो वा क्षत्रियो वा वणिगपि घटकृल्लोहकारोऽपि यद् वा यः पूर्वं तन्तुवायः कृतसुकृतलवैर्दूरितः पूरितोऽधैः ॥१३।। आरूढो रूपलक्ष्मी गुणततिषु तथा प्रौढिमानं भवान् भोः ! पूर्व प्रौढं त्रिलोकी-परिवृढ ! सुदृढं तीर्थकृत्कर्मबन्धात् । नृणां स्त्रीणां सुराणां नयनपथि यथा विंशतिस्थानकादिप्रत्याख्यानप्रभावादमरमृगदृशामातिथेयं प्रपेदे ॥१४।। दुर्ग दुष्टोपसर्ग विदलयति सतामाहतानां समूलं । लक्ष्मीमुख्यं च सौख्यं रचयति रुचिरं स्वीयचित्तानुकूलम् ॥ निर्वाणी यक्षिणीयं गरुड इति सुरः शासने ते मुनीनां सेवाहेवाकशाली प्रथमजिनपदाम्भोजयोस्तीर्थरक्षः ॥१५|| रङ्गगौराङ्गकान्तिर्विशदवृषगतिनिष्कलङ्क मृगाङ्क धत्ते नित्यं भवानीहितकरणरतो ब्रह्मचारिश्रितो यः ॥ सर्वज्ञः शान्तिनाथः प्रबलबहुलसद्दपकन्दर्पघाते दक्षः श्रीयक्षराज: स भवतु भवतां विघ्नमर्दी कपर्दी ॥१६॥ एवं श्रीज्ञानसिन्धुप्रसरशशधरः सद्गुणौधैः गंभीरश्चत्वारिंशत्सुचापप्रमिततनुविभाभासुरो विश्वमित्रम् । श्रीशान्ते ! पीतकान्ते त्रिजगदभिमते चारुचिन्तामणिस्त्वं ख्यातः शुद्धावदातः स्तुत इह मयका सम्पदां सद्म जीया: ॥१७॥ इति श्रीशान्तिनाथस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229352
Book TitlePadmurtimayam Stotra panchakam
Original Sutra AuthorN/A
AuthorAmrut Patel
PublisherZZ_Anusandhan
Publication Year
Total Pages23
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size453 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy