________________
अनुसंधान-२५ वक्तुं युक्तः । अथ तदयं शब्दाथयोर्भवंस्तादात्म्यं तदुत्पत्तिर्वाच्यवाचकभावो वा? । प्राचि पक्षे, 'स एवाऽऽत्मा यस्येति शब्दार्थद्वये ह्येकत्वमेव, सर्वभावानां शब्दरूपताऽर्थरूपता वा । यदि शब्दरूपता, तर्हि भावानां स्ववाचकत्व स्वभावानां युगपत् सर्वदा गुमगुमायमानतापत्तेः शंकी(गी?)तकारम्भनिभृतमिव त्रिभुवनं चकास्यात् । पट शब्दोच्चारणत एवाऽऽवरणक्रिया प्रसज्येत । भावानामर्थरूपतैव चेत्, तर्हि खड्गाग्निमोदकोच्चारणे वदनस्य च्छेद-दाह-पूरणादिप्रसक्तिः । अथ द्वये ह्येकत्वं कथम् ? | शब्दस्तु कर्णकोटरावलम्बी, साक्षात् क्षितितल मिलितकुम्भस्तम्भाम्भोरुहादिभावराशिसरित्यतस्तावत्तादात्म्यपक्षोऽपि न क्षेमकारः ।
तदुत्पत्तिरपि-शब्दादर्थ उन्मज्जेदर्थाद्वा शब्दः । शब्दादर्थश्चेत्, तर्हि घटशब्दोच्चारणे ति(ऽपि) जलाहरणक्रिया सिद्धैव, को नाम सूत्रखण्डदण्ड चक्रचीवरादिकारणमीलनक्लेशमाश्रयेदिति वाक्यतः प्रयोजनं सिद्धम् । द्वितीयभिदायां तु अर्थाद्वा शब्दः । स तु ताल्वोष्ठपुटादिव्यापारादेव दृष्टः । न तु कलशादेः ।
__वाच्यवाचकभावोऽपि तदवस्थो व्यवस्थादौस्थ्यस्थेमानमास्तिनुते । कि वाच्यवाचकयोर्भेदो वा १ अभेदो वा २ भेदाभेदो वा ३ ? । भेदश्चेत्, तर्हि तन्नियमितार्थग्रहणाभावादसम्बद्धतालूतालता लालग्यात् । अभेदः, कथं साक्षात् शब्दार्थावुपलभ्येते ? । तदित्ययुक्तिबन्धकीसंपर्कतोऽस्पृश्य एवाऽयं पक्षः । भेदाभेदपक्षश्चेत्, पर्यायान्तरेण]कथञ्चिदविश्वग्भावात्मक: सम्बन्ध एवाऽङ्गीकृतः मुधामद्वि(?) तदिति तटादर्शिशकुन्तपोतन्यायाज्जिनोक्तिष्वेव विश्रामः ।
अर्थोपलब्धौ सन्निकर्षादेः प्रामाण्यमामनन्ति वैशेषिकाः । अदग्धदहनन्यायेन तान् प्रत्याचक्ष्महे । न च सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम् । तस्याऽर्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः । न ह्यचेतनः स्तम्भः स्तम्भान्तरं निश्चिनोति । नहीन्द्रियवदञ्जन भोजनादेः सन्निकर्षादर्थान्तरज्ञानं संजाघटीति । द्रव्येन्द्रियं तु भावेन्द्रियाधीनम् । भावेन्द्रियं ह्यात्मज्ञानमेव । युक्तं तस्वीकृतं स्यादिति फलितार्थः । अपि च
अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं परे तेषामञ्जनभोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org