SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ September-2003 21 रहस्यं प्रोक्तुकामस्य प्रमाणस्योपदर्शनम् । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥४॥ तदित(द)माः किमेतत् ? अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्को रहस्यज्ञानं प्रमाणमिति । प्रमाणेन चरन्ति प्रामाणिकाः तेषाम् । श्रीमुनीश्वरसूरीन्द्र-दत्तस्तार्किकपर्षदि । मुनिहर्षमुनेरेष हस्तबाण: प्रमाणतः ॥५॥ ननु प्रामाणिकानां चतस्रो विप्रतिपत्तयो भवन्ति-प्रमाणस्य स्वरूप(प) १, सङ्ख्या २, फल ३, विषय ४ लक्षणाः । तत्र 'प्रमाणस्य स्वरूप' मिति । आदितोऽत्र साकांक्षं वचनं प्रमाणम् । न, तद्विप्रमिणोतीति प्रमाता । आत्मा वा प्रमाणम् ! न, साधकत्वात् कर्तृत्वाच्च । प्रमीयते योऽर्थः प्रमेयं वा प्रमाणम् । न, साध्यत्वाद्, अस्य कर्मपदत्वाच्च । प्रमातीति प्रमा, सम्यगनुभव एव वा प्रमाणम् । न, प्रमा-प्रमाणयोर्महान भेदः। प्रमायाः कार्यरूपत्वात्, तावत्करणस्य कारणरूपत्वादिति । अथ 'घटमहमात्मना वेयी'ति-'अह'मित्यात्मा ज्ञाता कर्ता १, 'घट' मिति ज्ञेयं कर्म २, "वेद्मी ति फलं क्रिया ३, केन ? 'आत्मना' - ज्ञानेन ४, करण व्युत्पत्तेश्च कर्तृ-कर्मविलक्षणत्वाद् वेदितव्य(व्यं) प्रमाणम् । प्रमातुः साधकत्वेन प्रमेयस्य साध्यतः । प्रमायाः फलरूपत्वात् साधनं त्वन्यदेव हि ॥१॥ प्रमीयते- परिच्छिद्यते संशयादिव्युदासेन वस्तुतत्त्वार्थोऽनेनेति प्रमाणमिति मुष्टिः । अथ किम् ? । अव्यभिचारि प्रमाणं, सम्यग्ज्ञानमिति यावत् । अपीदमेवं, परं व्यभिचारादन्यत्र । स तु संशयादिभ्य एव प्रादुःष्याद्, अतस्तया (स्ते आ)विष्कृत्याऽनभ्यासमित्याः । तत्र उभयकोट्यवलम्बी संशयः । यथा कश्चिद् विपश्चित् कुतश्चिदन्धतमसे परितः प्रसर्पति प्रान्तरे शिरःपाण्यादिलक्षणं क्षणं स्थाणुमालोक्य सन्देग्धि"किं स्थाणुरयं' ? , एका कोटिः, 'आहोश्वित् पुरुषो वा ?', द्वितीया कोटिः । अनिश्चितज्ञानमिति यावत् । तत्र अनिश्चितैककोट्यवलम्बी ह्यनध्यवसायः । यथा-पुन्नागनागवनराजिनिकुञ्जे "किंसंज्ञको वृक्ष' इत्येका कोटिरेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229347
Book TitleMunishwar suri krut Pramansar
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages26
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size523 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy