SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ September-2003 41 अर्थतान् विप्रतिपन्नाः सङ्गिरन्ते-को हि नाम शिलाकल्पमपगतसुखसंवेदनमात्मानमुपपादयितुं यतेत ? । यतः .. वरं वृन्दावने रम्ये कोष्टत्वमपि वाञ्छति । ___ न तु वैशेषिकी मुक्ति गौतमो गन्तुमिच्छति ॥१॥ सामान्यविशेषात्मकवादिनः अक्षपादा वैशेषिका जङ्गमकापालिकविशेषाः ॥ भग[वद्वेषधारिणो भाट्टाः प्राभाकराः । ब्रह्माद्वैतवादिनो मीमांसकापरपर्यायाः सामान्यवादिनः । प्रमाणादिचतुष्टयं न स्वीकुर्वते । सर्व ब्रह्मविवर्तमेवेति। एक एव हि भूतात्मा . भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१॥ अद्वैतं परमं ब्रह्म नेह नानाऽस्ति किञ्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन ॥२|| अशरीरा देवाः । चतुर्थ्यन्तं पदमिति देवताः । यथा वषडिन्द्रायेति । अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते । नित्येभ्यो वेदवाक्येभ्यस्तत्त्वज्ञानार्थनिश्चयः ॥१॥ वाग्व्यवहारार्थं प्राहु मनीयाःप्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमनेः ॥१॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राऽभावप्रमाणता ॥२॥ एतैः पञ्चभिः सत्तावादिभिरिव सर्वं ब्रह्म विवर्तमेव मन्यमानः ये (यै ?)रेवाद्दितया (?) खण्डनवादी अप्रामाणिक: परास्त्रैर्युयुत्सुराशामोदकतृप्त इव । जैनेनापि वाक्चपेटया प्रोच्चाटनीयः ॥ ___ अथाऽसद्दर्शनिनो नास्तिकाः परलोकात्ममोक्षापलापिनश्चार्वाकाः लौकायतिका बार्हस्पत्याः विसदृशप्रत्यक्षैकप्रमाणवादिनो गिरं सङ्गिरन्ते स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229347
Book TitleMunishwar suri krut Pramansar
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages26
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size523 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy