________________
September-2003
फलं प्रमावत् । तद् द्विविधं - आनन्तर्येण पारम्पर्येण । किन्तु प्रमातृस्वरूपमेव फलम् । न प्रमातरि सत्तावादिनां विप्रतिपत्तिरिति सिद्धम् ॥
इति प्रमाणसारे प्रमाणस्य सङ्ख्या विषय फल विप्रतिपत्तिव्याषेधको द्वितीयः परिच्छेदः ॥
(३) दर्शनव्यवस्थास्थापनार्थमिदमुपक्रम्यते । ननु खलु भोः शारदशशाङ्कसमुज्ज्वलयशसो विशारदाः ! शुभवद्भिर्भवद्भिरहरहः शास्त्राभ्यासः समातन्यते । तदिह प्रेक्षाचक्षुःसमक्षं सापेक्षं स्वपक्षे साधनं परपक्षे बाधनं कुर्महे हेच्छाः ॥ हंहो ! आदितस्तावज्जैन १ नैयायिक २ बौद्ध ३ सांख्य ४ वैशेषिक ५ जैमनीया ६ इति दर्शनानि षट् ॥
तत्र जैना अनेकान्तवादिनः । स्यादस्ति, स्यान्नास्ति । स्यादित्यव्ययं हि अनेकान्तद्योतकम् । एकस्मिन् सम्मुखवास्तुनि वस्तुनि घटादावस्तित्वं नास्तित्वं चेत्यनेकान्तः ।
सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः ॥ इति ॥
घटे घटत्वमस्ति, 'यदेवाऽर्थक्रियाकारि तदेव परमार्थसत्' । घटे च पटत्वं नास्तीति तत्रैव पटाभावो युक्त्या जातः केन निराकर्तुं शाशक्यते ? | अपि च नित्यानित्यत्वं परस्परविरुद्धमप्यनेकान्तयुक्त्या ह्येकस्मिन्नेव वस्तुनि उभयम् ।
यतः - द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क्व कदा केन किरूया दृष्टा मानेन केन वा ? ॥ इति ॥
गुणपर्यायवद् द्रव्यम् । सहभाविनो गुणाः । यथाऽ ऽत्मनि ज्ञानविज्ञानादयः । क्रमभाविनः पर्यायाः । यथाऽऽत्मनि नरनारकतिर्यगादय इति । द्रव्यापेक्षया य एव भावो नित्यः पर्यायापेक्षया स एवाऽनित्य इत्यविरोधः ॥
द्वे प्रमाणे--प्रत्यक्षं च परोक्षं च । ज्ञानात् कर्मक्षये मोक्षः । मुक्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org