SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ September-2003 33 संवेदनस्य स्वाभाविकसामर्थ्यसंकेतितार्थबोधबुद्धिशब्दाभ्यां अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् । तत प्रत्यक्षमपि द्विप्रकारं - सांव्यवहारिकं पारमार्थिकं च । तत्र इन्द्रियाऽनिन्द्रियनिमित्तं देशतः सांव्यवहारिकं प्रत्यक्षम् । तत्रेन्द्रियाणि विषयिणः पञ्च-स्पर्शन १ रसन २ घ्राण ३ चक्षुः ४ श्रोत्राणि ५ । विषया अपि पञ्चेति स्पर्श १ रस २ गन्ध ३ रूप ४ शब्दाः ५ । । रसन-स्पर्शन-घ्राण-श्रोत्राण्ये २(णी?)न्द्रियताबलात् । चक्षुरप्राप्यविज्ञातृ मनोवत् प्रतिपद्यताम् ॥१॥ अपराणीन्द्रियाणि प्राप्यकारीणि 1 यथा श्रोत्रेन्द्रियं शब्दपुद्गलं प्राप्यैवार्थं गृह्णीयादिति । तावच्चक्षुरप्राप्यकारि अन्येन्द्रियताबलत्वान्मनोवत् । अन्येन्द्रियासदृशं चैतत्, तस्मादप्राप्यकार्येव । अनिन्द्रियमनित्यं आत्मपरिमाणं मनः । सांव्यवहारिक मानसमपि प्रत्यक्षम् ॥ परमते तु नित्यमणुपरिमाणं मन इति ॥ चेतः सनातनतया कलितस्वरूपं, सर्वापकृष्टपरमाणुपवित्रितं च । प्रायः श्रियः प्रणयिनीप्रणयातिरेकादेतत्करोति हृदये न तु तर्कतज्ञः॥१॥ इत्यपि सण्टङ्कविटङ्कः ।। पारमार्थिकज्ञाने कैवल्ये ह्यात्ममात्राधीनत्वादिति विभङ्गि प्रतिपातिज्ञानस्य संक्षिसत्वादेव । मनसो नित्यता स्वप्नेऽपि दुर्लभा स्यादित्युत्तानार्थः ।। इन्द्रियाऽनिन्द्रियनिमित्तमपि प्रत्यक्षं चतुर्द्धा । अवग्रहेहावाय धारणाभेदादेकशश्चतुर्विकल्पम् । एकसामयिकः सत्तामात्रग्राहकोऽवग्रहः । विशेषाकांक्षणमीहा । विशेषनिर्णयोऽवायः । स एव दृढतमावस्थापनो धारणा ।। ज्ञसौ हि क्रमोऽमीषामयमेव, अन्यथा प्रमेयाऽनवगतिप्रसङ्गः । सामान्यमात्रग्राही प्रथमसामयिकोऽर्थावग्रहः । क्रमांविर्भूतापूर्वापूर्ववस्तुपर्यायप्रकाशकः स्यात् । संशयादिनिरासान्यथानुपपत्तेः । क्वचिदवग्रहादीनामाशूत्पादात् । ज्ञानोत्पत्तिकमस्याऽनुपलक्षणं हि युगपन्नागवल्लीदलशतव्यतिभेदवच्चेति । सांव्यवहारिकं प्रत्यक्षम् ।। तत्र पारमार्थिकं चात्ममात्रापेक्षं प्रत्यक्षम् । तद् द्विविधं-अवधिमन:पर्यायज्ञानभेदात् । क्षेत्रावधिरूपिद्रव्यगोचरं भवगुणप्रत्ययं ह्यवधिज्ञानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229347
Book TitleMunishwar suri krut Pramansar
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages26
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size523 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy