________________
September-2003
31
अपि च- स्याद्वादः प्रमाणस्वरूपं । स्यादित्यव्ययं अनेकान्तद्योतकम्। स्याता उपलक्षित: सदसनित्यानित्याभिलाप्यानभिलाप्यो वादः स्याद्वादः । तत्रेयं सप्तभङ्गी
_ 'स्यादस्त्येव सर्व' मिति विधिकल्पनया प्रथमो भङ्गः १ । स्यात्रास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो भङ्गः २ । स्यादस्त्येव स्यानास्त्येव क्रमतो विधिनिषेधकल्पनया तृतीयो भङ्गः ३ । स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थो भङ्गः ४ । स्यादस्त्येव स्यादवक्तव्यं निषेध (विधि)कल्पनया युगपद्विधिनिषेधकल्पनया पञ्चमो भङ्गः ५ । स्यानास्त्येव स्यादवक्तव्यं निषेधकल्पनया युगपद्विधिनिषेधकल्पनया षष्टो भङ्गः ६ । स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यं क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया सप्तमो भङ्गः ७॥
या प्रश्नाद् विधिपर्युदासभिदया बोधच्युता सप्तधा धर्म धर्ममपेक्षवाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेसि(शि) देव ! भवता सा सप्तभङ्गी यया
जल्पन् जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात् ॥ ग्रन्थगौरवभयादवैतावदुक्तम् । विस्तरत: स्याद्वादरत्नाकरादवसेयम् ॥ इति प्रमाणसारे प्रमाणस्वरूपप्ररूपकः स्वोपज्ञः प्रथमादर्शः ॥४०
(२) अथ प्रमाणस्वरूपविप्रतिपत्तिहेतुं प्रदर्श्य प्रमाणसङ्ख्याप्रतिपत्तिर्मुसन्ति । अथाऽनेकान्तमतप्रामाण्यमभ्युपगम्य जितकासी प्रत्युत प्रत्यवस्थानपुरःसरं परवादिनं प्रतिवादी जैनः प्रतिजानीते ।
ननु भो वादिन् ! प्रश्न:४३ क्रियताम् । परः- “कियन्ति प्रमाणानि' ? ।
इत्युक्ते जैनः - जिज्ञासाऽऽविष्करणं प्रश्न इति । ज्ञातुमिच्छा जिज्ञासा । अत्र ज्ञाते सति पृच्छा, अज्ञाते वा ? । सुनिश्चिताशेषपदार्थपरमार्थस्य किमर्थं पृच्छा ? | अज्ञाते वा क:५४ कृती कर्ममर्मविनाकृतेन वृथाप्रलापिना सम्यग वाग्जन्मवैफल्यं नाटयति ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org