________________ 83 अनुसंधान-२० तस्य ततोऽन्यत्वात् / तन्न / ज्ञानं हि यदि एकान्तेनाऽऽत्मनोऽन्यत् स्यात् तहि तस्मादात्मनोऽर्थप्रतिपत्तिर्न स्यात्, तदभावाच्च तदानयनादौ प्रवृत्तिस्तु दूरापास्तैव / नहि देवदत्तसम्बन्धिनो ज्ञानाज्जिनदत्तस्याऽर्थप्रतिपत्ति; लोके मूर्खाभावप्रसङ्गात् / ततः कथञ्चिदभिन्नमात्मनो ज्ञानं स्वीकर्तव्यम् / एवं च यद्यात्मा एकान्तनित्यः स्यात् तर्चेकज्ञानवानेव स्यात् ज्ञानान्तरवत्त्वे ज्ञानाभिन्नत्वेन पूर्वज्ञानविनाशे आत्मनोऽपि कथञ्चिद् विनाशात् / किञ्चैवं हिंसादिपरिणतिरप्यात्मनो न स्यात्, एकान्तनित्यत्वेन सदैकस्वभावत्वात् / दृश्यते च यदि सेति स्वीक्रियते तदा पूर्वमहिंसादिपरिणतिलक्षणस्वभावोपमर्देन हिंसादिपरिणतिलक्षणस्वभावभावादात्मनोऽनित्यत्वं स्यात् / तदभावाच्च बन्धोऽपि कौतस्कुतः स्यात् ? अथैतदोषभयात् सर्वदैव हिंसादिपरिणतिरभ्युपगम्यते तदा मुक्तिः कदाचिदपि न स्यात् / तथा च यमनियमादिकरणमपि दृश्यमानमसङ्गतमेव स्यात्, प्रागवस्थायां तस्य हिंसापरिणतत्वात्, अथ हिंसा-परिणामस्य च त्वया सर्वदाऽभ्युपगमात् / कदाचिदनभ्युपगमे चाऽऽत्मनो भिन्नरूपत्वेनाऽनित्यत्वापातात् / न चैकस्वभावत्वेऽपि कदाचिद् बन्धः कदाचिदबन्ध इति वाच्यं / बन्धाबन्धकाल-भेदेऽभ्युपगम्यमाने आत्मनोऽनित्यत्वापातात् / तथा हि-यदैवाऽस्य न बन्धस्तदा बन्धकारणहिंसापरिणतिस्वभावो जरसेव यौवनमबन्धकारणहिंसाविरतिपरिणामस्वभावेनाऽपनीयते, अन्यथा तत्परिणतिस्वभावभावेन पूर्वकालवद् बलाद् बन्ध एव स्यात् / न हि वह्निरनपगते दहनस्वभावे न दहतीति; तत्परिणतिस्वभावापगमे च नियतमनित्यता / माऽस्तु वा बन्धाबन्धकालभेदः, तथाऽप्यात्मा कथञ्चिदनित्य एव / अन्यथा य एव स्वभावः प्रथमसमये स एव द्वितीये, इति द्वितीयसमयबन्धनीयस्याऽपि कर्मणः प्रथमसमय एव बन्धः स्यात्, तत्कारणस्य स्वभावस्य विद्यमानत्वात्, प्रथमसमयभाविबन्धवत् / ततो द्वितीयादिक्षणेऽबन्ध-कत्वमात्मनः प्राप्तमिति स्वभावभेदादनित्य एवाऽऽत्मेति स्थितम् / किञ्चैवमहिंसादिविरतिपरिणतिरपि न सम्भवति, जीवस्यैकस्वभावत्वेन हिंसापरिणतिविच्युत्यभावात् / न चेष्टापत्तिः, मुक्त्यभावप्रसङ्गात्, तत्कारणहिंसादिविरतिपरिणत्यभावात् / अथ हिंसादिविरतिपरिणतिरभ्युपगम्यते तहि सर्वदा तदेकस्वभावत(वतः) मुक्तिरेव स्यात् / Jain Education International For Private & Personal Use Only www.jainelibrary.org