________________
80
July-2002
घटपरिणाम प्राप्नुवन् परिणामीत्यभिधीयते, तथा जीवोऽपि, तत्तत्सामग्रीसद्भावात तस्याऽपि तत्तत्सुखदुःखादिपरिणामप्राप्तेः । परिणामित्वाच्च नैकान्तेनानित्यो नाऽप्यनित्यः, किन्तु नित्यानित्य एव । अन्यथा सुखादिपरिणामायोगात् । तथा हि-यद्ययमात्मा एकान्तेन नित्यः स्यात् तदा सर्वदा एकस्वभाव एव स्यात् । अप्रच्युतानुत्पन्न-स्थिरैकरूपत्वादेकान्तनित्यस्य । न चैवं, य एव सुखी तस्यैव सुखसामग्र्यभावेऽसुखित्वोपलब्धेः, दुःखसामग्री सद्भावे च दुःखित्वेनोपलब्धेश्च । न च सुखदुःखोभयस्वभाव आत्मा इत्येकस्वभाव एवाऽयं, युगपत् सुखदुःखानुभवप्रसङ्गात् ।
___अथ यदैव नदीमुत्तरता मुनिना चरणयोः शीतलजलसंस्पर्शात सुखमनुभूयते, तदैव लुञ्चिते शिरसि खरतरदिनकरकरतापतो दुःखमपि । अतोऽस्त्येव सुखदुःखवेदकस्वभावत्वमात्मनः इति चेत् । न । कालस्याऽत्यन्तसूक्ष्मत्वेन मनसश्चाऽतीवाऽऽशुसञ्चारितया सतोऽपि क्रमानुभवस्याऽनुपलक्षणात् शतपत्रपत्रशतं मया शूच्यग्रेण युगपद् भिन्नमित्यत्रेव तत्र यौगपद्याभिमानस्य भ्रमत्वात् । युगपच्चेज्ज्ञानमभ्युपगम्यते तदा मन:कल्पना निरालम्बा स्यात्, युगपज्ज्ञानानुत्पत्तेर्मनसो लिङ्गत्वात् । तदुक्तम्
"युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्ग" मिति ।
अथ कदाचिदात्मनः सुखवेदकत्वं कदाचिच्च दुःखवेदकत्वं, तेनाऽयं उभयवेदकस्वभाव इत्युच्यते इति चेत् । तर्हि सुखवेदनकाले तस्य दुःखवेदनस्वभावो निवृत्त इत्यात्माऽपि कथञ्चिन्निवृत्त एव, स्वभावस्य स्वभाववतोऽभिन्नत्वात् । अन्यथा निःस्वभावत्वेन तस्य खरविषाणस्येवाऽसत्त्वं स्यात् । तथा च प्राप्तमात्मनोऽनित्यत्वम् । अथ सुखवेदनकालेऽपि दुःखवेदकस्वभावो न निवर्तते, तदा तदानीं दुःखमपि वेदयेत्, प्रागिव दुःखवेदकस्वभावस्य सत्त्वात् । अथ दुःखवेदकस्वभावोऽपि तदानीं विद्यते, अन्यथा तन्नाशेन कथञ्चिदात्मनोऽपि नाशाभ्युपगमापत्तेः । न चैवं दुःखमपि तदानीं वेदयेदित्यपि वाच्यं । तत्सत्त्वेऽपि दुःखसामग्र्यभावेन दुःखवेदनानुपपत्तेरिति चेत्- हन्तैवमपि उभयसामग्रीसद्भावे उभयमप्येकदा वेदयेत्, उभयवेदकस्वभावस्य सर्वदा सत्त्वात् । न चोभयसामग्रीसन्निधानमेकदा न भवति, स्रक्-चन्दन-वनितादिकसुखसामग्र्या विषशस्त्रप्रहारादिदुःखसामग्र्याश्चैकदा देवदत्ते सन्निधानस्य प्रत्यक्षेणोपलब्धेः । न च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org