________________
July-2002
प्रविशन्नपि (प्रविशदपि) यथा पद्मिनीपत्रं जलेन । लिप्यते च तत्र तेन, यथा वस्त्रं तथा अस्मदादिरिति जीवत्वाविशेषोऽपि वस्तुत्वाविशेष इव किं न स्यात् ? | न च पुरुषत्वं जलसंयोगनिमित्तकारणं, तच्च पद्मिनीपत्रे नाऽस्ति ततस्तत् तेन न लिप्यते । कर्मबन्धकारणं तु रागादिरेव, स च परमेश्वरेऽप्यस्तीति स लिप्यत एवाऽस्मदादिवत् कर्मणेति वाच्यम् । तथाविधरागादेस्तत्राऽभावात् । तन्न । स्तोकतरे रागे स्तोकतरप्रवृत्तिर्भविष्यतीति स्तोकतरः कर्मबन्धोऽपि स्यात् । तथा च तदवस्थ एव सर्वज्ञत्वाभावात् सर्वकर्तृत्वाभावः ।
अथैतद्दोषभयात् स्तोकतरोऽपि तत्र रागो नास्तीति प्रोच्यते, तर्हि वीतरागत्वेन सर्वज्ञत्वेऽपि न कञ्चित् सुखिनं दुःखिनं वा स्त्रष्टुमभिलाष उपजायते. इति कुतः क्रीडया विचित्रसत्त्वकरणमुच्यमानं सङ्गतं स्यात् ? ।
वस्तुतस्तु जगत्स्रष्टा नाऽस्त्येव, तत्साधकप्रमाणाभावात् । न च प्रमितं कृचिनिषिध्यते, न पुनरप्रमितं, प्रमितश्च जगत्स्रष्टा, तदा न निषेध इति वाच्यम् । 'खरविषाणं नाऽस्ती'त्यनेनाऽप्रमितस्याऽपि खरविषाणस्य निषेधात् ।
किञ्च, सतो जीवान् स कुरुतेऽसतो वा ? | नाऽऽद्यः, अनवस्थापत्तेः, न द्वितीयः, खरविषाणस्येव तेषां तुच्छत्वेन कर्तुमशक्यत्वात् । घटस्याऽप्युपादानं विद्यत एवेति नैकान्तेनाऽसत एव तस्य करणम् । एवमेव यदि जीवानामप्युपादानमिष्यते तर्हि तज्जीवात्मकमेव वाच्यमिति सिद्धं जीवानामनादित्वम्, अन्यथाऽसदुपादानकत्वेन तेषामसत्त्वमेव स्यात् ।
किञ्च, यदि सर्वं जगत् परमेश्वरः करोति तदा तनिषेधकमपि शास्त्रं तेनैव कृतमिति सत्यमेव तत् स्वीकर्तव्यम् । तथा च स नाऽस्त्येव । यदि पुनरसत्यं तदाऽसत्यशास्त्रकारित्वात् कथं स प्रमाणम् ? |
अथाऽजीवो जीवानां कर्ता इति चेत् । न । अजीवस्य तदुपादानगोचर- . ज्ञानादेरभावेन तत्कर्तृत्वानुपपत्तेः ।
अथ यथा शालिबीजादीनि ज्ञानविकलान्यपि नियतशक्त्युपेततया नियतस्वकार्यकारीणि दृश्यन्ते तथाऽयमप्यजीवस्तथाविधशक्तिसद्भावात् देवनारकादिभेदभिन्नान् जीवान् कुरुते इति चेत् । न । पूर्वोक्तदोषसन्दोहस्याऽत्राऽप्यवतारात् । तथाहि- अयमजीवः किं कृत्रिमो वा स्यादकृत्रिमो वा? । यदि कृत्रिमस्तदा सोऽप्यन्येन कर्तव्य इत्यनवस्था । अथाकृत्रिमस्तर्हि जीवैः किमपराद्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org