SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 57 अनुसंधान-२० पृथिवी-त्वादिनाऽऽनुरूप्यमिष्यते तहि घटादिष्विव जीवद्देवदत्तशरीरेऽपि चैतन्यस्याऽभाव एव भवेत्, पृथिव्यादित्वस्य काठिन्याबोधादिस्वभावाविनाभावित्वात् । ननु न पार्थिवपरमाण्वादिजन्यं चैतन्यं येन पार्थिवत्वाद्यनुगमेन घटादाविव जीवदेवदत्तशरीरेऽपि तस्याऽभावः स्यात्, किन्तु प्राणापानादिजन्यं इति चेत् । न । तस्य प्रागेव निरस्तत्वात् । मूर्तात् प्राणापानादमूर्तस्य चैतन्यस्याऽनुत्पत्तेः, अत्यन्तवैलक्षण्यात् । यत् तूतं- अत्यन्तवैलक्षण्येऽपि कार्यकारणभावो भवत्येव, सूक्ष्माप्रदेशपरमाणुभ्य: स्थूलसप्रदेशघटादेर्दर्शनादिति । तदवारिपात एव रमणीय; प्रासादशिखरस्थसौवर्णाभासान्तस्ताम्राकृतिकलशवत् । तेषां तस्मादत्यन्तवैलक्षण्याभावात् । नहि ते सूक्ष्मा अपि सन्तोऽमूर्ताः, रूपादिस्वरूपात्मकत्वात् । अप्रदेशास्तु न भवन्त्येव, सतः क्वचिदवस्थानसम्भवेन दिग्भागभेदोपपत्तौ नियमतः कथञ्चित् सप्रदेशत्वात् । न चैवं परमाणोः परमाणुत्वं विरुध्येत, तस्य तदन्याल्पतराभावनिबन्धनत्वात् । ततश्चैवं भूतेभ्य: परमाणुभ्यः स्थूलसप्रदेशघटादिकार्यमुत्पद्यत एव, कारणधर्मानुगमेन तस्य तदनुरूपत्वात् । न च द्रवत्वचलत्व - काठिन्यादयो भूतधर्माश्चैतन्येऽपि सन्ति येन तद्भुतोपादानकं स्यादिति यत्किञ्चिदेतत् । किञ्च, यदि चैतन्यं कायाकारपरिणतभूतोपादानं तर्हि निपुणतरशेमुषीककृते कायाकारभूतसमुदाये कथं नोत्पद्यते ? न हि मृत्पिण्डोपादानो घटो निपुणतरशेमुषीककृते मृत्पिण्डे नोत्पद्यते । अथ नोत्पद्यते एव सः, यथा तत्र चक्राद्यभावे; तथा स्त्रीकुक्षिलक्षणस्वकारणीभूतस्थानाभावादिदमपि नोत्पत्स्यते इति चेत् । तत् किं खञ्जरीट-यूकामत्कुणेषु चैतन्याभाव इति वक्तुमध्यवसितोऽसि ? कारणत्वाभिमतस्य युवतिकुक्षिलक्षणस्थानस्य तत्राऽजातत्वेन सर्वलोकप्रसिद्धेः । न चैवमेव पुरुषेष्वपि, चैतन्याभावप्राप्तेः । अथ तथाविधपरिणामाभावात् तत्र चैतन्याभाव इति चेत् । जीवाभावादेवेति किं नाऽङ्गीकुरुषे ? न हि तत्र प्रमाणम् । यत् तु समुदितेभ्योऽपि मद्याङ्गेभ्यः वचित् तथाविधपरिपाकाभावाद् यथा न मदशक्तिस्तथा कुशलपुरुषकृतादपि कायाकारभूतसमुदायात् छचिन्न चैतन्यमिति तत् कथं ? कुशलत्वविशेषणोपादानेनैव तदाशङ्कानिरासात् । न च कुशलपुरुषकृतात् तथाविधभूतसमुदायादुत्पद्यत एव चैतन्यं, परमेश्वरीकृत स्वशरीरमलपुरुषस्य विनायकत्वेन श्रवणादिति वाच्यम् । तस्य त्वयाऽनङ्गीकारात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy