________________
53
अनुसंधान-२० स्यादिति चेत्, न, भृतकार्यत्वे चैतन्यस्याऽमूर्त्यादेरनुपपत्तेः । तनाविधस्वभावकल्पने कोशपानादन्यस्य प्रमाणाभावात् । न हि घटादीनामपि वैचित्र्यमेकान्तेन स्वभावकृतं, कार्यकारणभावविलोपापत्तेः । किन्तु कारणवैचित्र्यकृतम् । अत एव नीलतन्तुभ्यो नोल एव पट उत्पद्यते, न शुक्लः, उपादानकारणीभूततन्तुसमुदाये शौक्ल्याभावात् । शुक्लतन्तुभ्यः पुनः शुक्ल एव, न तु नीलः, उपादानकारणीभूतन्तुसमुदाये नैल्याभावात् । तदुभयमपि मूर्ते तु भवत्येव, उभयोपादाने मूतत्वस्य सत्त्वात् ।
तदेवं यदि चैतन्यं भूतोपादानकं स्यात् तर्हि भूतानां मूर्तत्वेन जडत्वेन विषयापरिच्छेदकत्वेन चैतन्यमपि मूर्तं जडं विषयापरिच्छेदकं स्यात् । न चैवम् । तस्मान्न भवत्येव चैतन्यं भूतोपादानकम् ।
न च निरुपादानमपि किञ्चिद् वरिवत्ति । अतो य एतस्योपादानं स आत्मा, तत्तद्रव्यक्षेत्रादिसामग्रीसापेक्षेणाऽऽत्मनैव तस्य तस्य चैतन्यपरिणामस्य जन्यमानत्वात् ।।
___ स्यादेतत्- भूतसमुदायोपादानकमपि चैतन्यममूर्तं भवतु, मूर्तोपादानकस्य मूतत्वमेवेत्यत्र मानाभावात् । न च-प्रत्यक्षमेव मानं मूर्तकपालादिजन्यानां घटादीनां मूतत्वस्यैव विलोकनादिति वाच्यम् । घटादीनां तथात्वेऽपि सर्वत्र तनियमस्याऽसिद्धेः । मूर्तघटाधुपादानकस्याऽपि रूपादेरमूर्तत्वाभ्युपगमात् । रूपादिविशेषो हि मूत्तिरभिधीयते । न हि सा रूपादावपि, रूपादौ रूपादेरनङ्गीकारात् । न चैकान्तेनाऽसतश्चैतन्यस्य कथमुत्पत्तिः स्याद् ? अन्यथा खरविषाणस्याऽपि सा न कथं स्याद्? इत्यपि मुग्धविप्रतारकं वचनं वाच्यम् । सामग्यधीना ह्युत्पत्तिर्वस्तुनः इति खरविषाणं सामग्या अभावान्न भवति, चैतन्यं तु भविष्यति, सामग्याः सत्त्वात् । दृश्यते च दण्डादिसामग्रीसद्भावेऽसन्नेव घट उत्पद्यमानो, न पुनः पटः: दण्डादेः पटसामग्रीत्वाभावात्, पर्यायेण व्यभिचाराच्च । तस्य त्वयाऽप्येकान्तेनाऽसत एवोत्पत्त्यभ्युपगमात् ।
तन्न । मृतघटाधुपादानकस्य रूपादेरकान्तेनाऽमूतत्वाभावात्, उपादेयस्य उपादानात् कथञ्चिदभिन्नत्वेन तन्मूलतया कथञ्चित् तस्याऽपि मूर्तत्वात् । नहि घटादेरुपादानादुपादेयत्वाभिमतं रूपादि एकान्तेन भिन्नं, पवनस्येव घटादेर्नीरूपत्वप्रसङ्गात् पवनस्याऽपि वा घटादेरिव रूपवत्त्वापत्तेः । भिन्नं हि तद्रूपं घटादेरेव, न पुन: पवनस्येत्यत्र किं नियामकं स्यात् ?, उभयत्राऽ ऽपत्तेरविशेषात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org