SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ July-2002 प्रमाणाभावात् । असतश्च नाऽभिव्यक्तिर्भवतीति मा भृत् कायाकारपरिणतभूतेभ्यस्तस्याऽभिव्यक्तिः । उत्पत्तिस्तु भविष्यति, असतोऽप्युत्पत्तेः । तदुक्तं कायाकारप्राणाषानपरिग्रहवद्भ्यो भूतेभ्यस्तदुत्पद्यते नाऽविशिष्टेभ्य' इति। न च प्रत्येकावस्थायामविद्यमानस्य समुदायावस्थायामपि भूतेभ्यश्चैतन्यस्योत्पत्तिर्न भवेत इति वाच्यं । प्रत्येकावस्थायामविद्यमानाया अपि गुड-धातक्यादिभ्यो मदशक्तेरुत्पत्तेः । न चाऽनुपपत्तिः, दृष्टेऽनुपपत्तेरभावात् । तदुक्तम् 'न दृष्टेऽनुपपन्नते'ति । न च चैतन्यं यदि असदेवोत्पद्यते भूतेभ्यस्तदा खरविषाणमपि तत उत्पद्येत, असत्त्वाविशेषादिति वाच्यम् । भूतानां तज्जननस्वभावतया तस्यैव तेभ्य उत्पत्तेः । न च 'भूतानां चैतन्यजननस्वभावत्वे घटादावपि चैतन्योत्पत्तो चेतनाचेतनव्यवहारविलो [पा] पत्तिः, न चाऽयं व्यवहारोऽभिव्यक्तान- . भिव्यक्तचैतन्यनिबन्धनो न तु तत्सत्त्वासत्त्वनिबन्धन इति । सत्यपि घटादो चैतन्ये न चेतनत्वेन व्यवहारः, तच्चैतन्यस्याऽनभिव्यक्तत्वात् । यदुक्तम्- 'चैतन्यानभिव्यक्तिर्घटादिषु, कारणाभावात्. पांश्वादिषु अनभिव्यक्तमदशक्तिवत् । चैतन्याभिव्यक्तेहि कारणं क्षित्यादेः कायाकारपरिणतत्वं. मदशक्त्यभिव्यक्तः पिष्टोदकगुडधातक्यादिपरिणतत्ववत् । तच्च घटादिषु नाऽस्तीति तदनभिव्यक्तिभावस्तत्र, पांश्वादौ पिष्टोदकादिपरिणामाभावान्मदशक्त्यनभिव्यक्तिभाववदिति ।' इत्यपि वक्तुं शक्यम् । घटादौ चैतन्यस्याऽनभिव्यक्तेरनुपपत्तेः । तथाहि- अनभिव्यक्तिः खलु आवृतस्य भवति न त्वनावृतस्य । न च तत्र चैतन्यस्य भूतव्यतिरिक्तं किञ्चिदावारकं, चत्वार्येव भूतानि तत्त्वमिति तत्त्वसंख्यानियमव्याघातापत्तेः । न च भूतानामन्यतमस्यैवाऽऽवारकत्वं, तेषां व्यञ्जकत्वेन प्रतिज्ञानात् । न च व्यञ्जकमावारकं, स्वरूपव्याघातात् । न च भूतानामेव विशिष्ट परिणामाभाव आवारकः, तस्य सकलशक्तिविकलत्वेनाऽऽवारकत्वायोगात् । नो चेत् आवरणक्रियाकरणशक्तिमत्तया कुड्यादिवत् तस्य भावत्वापत्तावपसिद्धान्तभयेन पृथिव्याद्यन्यतमत्वेनैव त्वया स्वीकरणीयतया व्यञ्जकत्वस्यैवोपपत्तेः । किञ्च, यस्य विशिष्टपरिणामस्याऽभावा (व आ) वारक: स भूतेभ्यो भिन्नो वा स्यादभिन्नो वा ? यदि भिन्नस्तहि 'चत्वार्येव भूतानि तत्त्व' मिति तत्त्वसङ्ख्यानियमव्याघातः, अथाऽभिन्नस्तदा तत्स्वरूपवत् तस्याऽपि सदा भावेन सर्वदाऽभिव्यक्तिप्रसङ्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy