________________
44
July-2002 किञ्च, चैतन्याभिव्यक्तिर्यदि कायाकारभूतकारणिका तहि मृतकायेऽपि कथं न स्यात् ? । न हि घृतसंयोगादिकारणिका कुङ्कुमादिगन्धाभिव्यक्तिपुंतसंयोगवत्यपि कुङ्कुमादौ न भवति । तन्न तथाविधभूतानां चेतनाया अभिव्यञ्जकत्वम् ।
अपि च, आवृतस्यैवाऽभिव्यक्तिरभिव्यञ्जकसत्त्वे भवति, न च नावृतस्य, तथाऽदर्शनात् । एवं च कायाकारहेतुषु अकायाकारेषु भूतेषु चैतन्यं केनाऽऽवृतं? इति निर्वचनीयम् ।
कायाकारपरिणामाभाव एवाऽऽवरणं इति चेत्-न, अभावस्य सकलशक्ति विकलतया आवरणादिक्रियाकारित्वायोगात् । तदकारकस्य चाऽऽवरणत्वानुपपत्तेः, अतिप्रसङ्गात् । न च भावभूतमेव किञ्चिदावरणं. भृतचतुष्टयातिरिक्तस्य भावस्य स्वीकारेऽपसिद्धान्तप्रसङ्गेन भूतचतुष्टयमध्यादन्यतरदेव तत् त्वया वाच्यं, तस्य च नावरणत्वं, व्यञ्जकत्वाङ्गीकारात् । आवरणत्वे वा न कदाचिदपि तदभिव्यज्येत, कायाकारस्य तन्निमित्तकत्वेन तस्य सर्वदा सत्वात् ।
किञ्चेदं चैतन्यं यदि भूतेभ्यो व्यतिरिक्तं तदा सिद्धमेवाऽस्माकमिष्टं. नाममात्रविपर्ययेणाऽऽत्मनोऽभ्युपगमात् ।
अथाऽव्यतिरिक्तं तत् तु न युक्तं, भूतनिश्चयेऽपि हर्षविषादादिरूपचैतन्यस्याऽनिश्चयात् । नहि यस्मित्रिश्चीयमानेऽपि यन्न निश्चीयते तयोरप्यैक्यम्, अतिप्रसङ्गात् । उक्तं च- "यस्मिन्निश्चीयमानेऽपि यन्न निश्चीयते न तयोरैक्यमेव, यथोष्णत्व-कठिनत्वयोः । न निश्चीयते च शरीरे निश्चीयमानेऽपि चैतन्यं, ततो नाऽनयोरैक्यमिति" ! न चाऽसिद्धिः । तथाहि- अस्ति खल चैतन्यस्य हर्षविषादादि अनेकं रूपमनुभवसिद्धं, भूतानां काठिन्यादिवत् । तच्च शरीरे निश्चीयमानेऽपि न निश्चीयते, तत्प्रतिपक्षस्य संशयस्याऽसकद्दर्शनात् । विरुद्धधर्मसंसर्गेऽपि यदि न भेदस्तदा पृथिव्यादीनामप्यैक्यमापद्येतेति पृथिवीप्राप्तौ जलप्राप्तिरपि स्यात् । तथा च न काचित् कामिनी कुचकुम्भभारखिन्ना कुम्भमादाय सलिलार्थं सरसीमभिव्रजेत्, इति अयत्नेनैव सर्वार्थसिद्धि स्यात्, सर्वार्थासिद्धिरेव वेति महदसमञ्जसं स्यात् ।
अथ भिन्नाभिन्नं भूतेभ्य: चैतन्यं, तन्न सङ्गतम् । भिन्नं हि यदि भूतेभ्यश्चैतन्यं तदा कथमभिन्नम् ? अथाऽभिन्नं कुतस्तर्हि भिन्नम् ? विरोधात् । कथञ्चिद्भेदाभेदपक्षे त्वविप्रतिपत्तिरेव । अस्माभिरपि शरीरस्य आत्मना सह कथञ्चिदभेदाभ्युपगमात् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org