________________
अनुसंधान-२०
39 परतन्त्रतयोपलभ्यमानत्वेन रूपादीनामिव धर्मत्वात् । धर्माश्च न धमिणमन्तरेणेति य एषां धर्मी स एवाऽऽत्मा; प्रत्यक्षश्चाऽसौ, एतत्प्रत्यक्षत्वात् । अन्यथा घटादीनां प्रत्यक्षत्वे का प्रत्याशा ?। रूपादीनामेव तत्राऽपि प्रत्यक्षत्वम्ः इत्यस्याऽपि सुवचत्वात् । अनुभवविरोधश्चेद् दूषणं, स किं नाऽत्र, येनात्मनः प्रत्यक्षत्वं न स्वीकुरुषे ? ।
किं च, अस्त्यहमिति ज्ञानं, न चैतत् प्रत्याख्यातुं शक्यम्, अनुभवविरोधात् । न चैतदनुमितिरूपं, व्याप्तिस्मरणादिनिरपेक्षत्वात् । किन्तु प्रत्यक्षं, स्वसंविदितरूपत्वात् स्पष्टप्रतिभासत्वाच्च । तद्विषयश्च न बाह्योऽर्थस्तस्याऽत्र प्रतिभासाभावात् । न च भूतचतुष्टयविषयमिदं ज्ञानं, अरूपादिप्रतिभासात्मकत्वात् अन्तर्मुखावभासित्वाच्च । यत् पुनर्भूतचतुष्टयविषयं तद् बहिर्मुखावभास्येव, तथा प्रतीयमानत्वात् । न चेत्, प्रतिभासमानस्याऽप्यहप्रत्ययस्य विषयान्तरमेव कल्पयितुं शक्यम् । सलिलादिप्रतिभासिनोऽपि ज्ञानस्य पृथिवीविषयत्वकल्पनया तद्भावप्रसक्तेः । तस्मादेतस्य यो विषय: स आत्मैवेति कथमुक्तम् 'आत्मनः प्रत्यक्षेण न ग्रहण मिति ? ।
अथ यथा रूपादिविषये प्रत्यक्षमुत्पद्यमानं तत्स्वरूपमवगमयति तथा आत्मविषयेऽप्युत्पद्यमानं प्रत्यक्षमात्मस्वरूपमवगमयेत् । न च प्रत्यक्षविषये वस्तुनि विप्रतिपत्तिरतोऽप्रत्यक्ष एवाऽऽत्मेति चेत्
न, 'इदं रूप'मित्यादिप्रत्यक्षस्य यथा रूपस्वरूपप्रकाशकत्वं तथा'ऽयमह मिति प्रत्यक्षस्याऽप्यस्त्येवाऽऽत्मस्वरूपप्रकाशकत्वं, शरोरगुणग्रहणवैमुख्यतयाऽन्तर्मुखावभासित्वेन प्रवृत्तेः ।
न चैवमात्मनः सदा सन्निधानात् सदैवाऽहंप्रत्ययप्रसङ्गेन सदैवाऽऽत्मग्रहणं इति वाच्यम् । आत्मनः सदा ग्रहणस्वभावत्वानभ्युपगमात् । कर्मवशगस्य हि तस्य तत्कर्मक्षयोपशमसामर्थ्यादेव तत्र तत्र विषयग्राहकत्वेन प्रवृत्तेस्तकर्मप्रतिबन्धादेव च तदैवाऽपरत्राऽप्रवृत्तेरिति न सर्वदैवाऽऽत्मग्रहणम् ।
न च प्रत्यक्षविषये वस्तुनि न विप्रतिपत्तिर्भूतेष्वपि तद्दर्शनात् । प्रकृतिविकाररूपत्वेन तेषां सांख्यैः स्वीकारेऽपि वैशेषिकैरणुव्यणुकादिक्रमारब्धकार्यरूपतया, बौद्धेश्च विज्ञानमात्ररूपतया स्वीकारात् । यदि चेयं न वस्तुतो विप्रतिपत्तिः, प्रसिद्धव्यवहारनियमात्, सर्वैरपि सांख्यादिभि: शौचादितत्तत्कर्मार्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org