________________
20
श्रेयः श्रेष्ठकुटुम्बवृद्धिमतुलां कुर्याद्युगादिप्रभुः श्रेयः सन्ततिकारकः शिवपुरीसङ्घस्य कल्याणकृत् ॥१०॥
॥ इति श्री ६ आदिनाथस्तुतिः सम्पूर्णा ।। कृता पं. भक्तिसागरगणिना ॥
अनुसंधान- २३
( २ ) श्रीमगसीपुर - पार्श्वनाथस्तवनं कुटुम्बनामगर्भितम् (राग केदारगुडी तथा आसाउरी)
श्रीमगसीपुरमण्डन ! शम्भोदय जयदायक ! नायक ! शम्भो ! | श्रीपार्वामयसञ्चयदम्भो, गममपनय मदनाघमदम्भो ॥१॥ माताराभवतो भुवि कस्यां, बाबारानुकृतिर्नहि कस्याम् ? | काकाराद्भुतभूघनकान्ता, काकीर्णाननुमतिते कान्ता ||२|| मामारः परिभवतु नितान्तं मामीसुरभवतागमतान्तम् । मासुख - शितिदशमीभव पोषे, मासीहितकारक ! [गतदोषे ] ॥ ३ ॥ भाईभासुर भूघनकान्ते ! वह निघनीव्रजतततमकान्ते ! | ससरोदयधारकहरिनूता सासूनृततनुभा भुवि नूता ॥४॥ भा भुजयामलमञ्जुलकाया भाभी रुचिर वितरतु काया । देवरणोज्झितसुखकरवाणी देवराणी अयि तरतनुबाणी ||५|| दिक निखिलकलागुणदाना दिकरीतिः परकुशलनिदाना । भाणे जय कारणजितभाना भतरीज्येष्ठरुचे हसमाना ||६||
कलश:
S
स्तोत्रेऽत्राऽस्ति कुटुम्बशब्दमिलनं दृग्दष्टमात्रं यथा विज्ञायाऽसफलं भवेऽपि निखिलं कौटुम्बिकं तत् तथा । श्रीमत्पण्डितराजसागरसुधीः शिष्यो ( सुधीशिष्यो ) महानन्दनं श्रीपार्श्व रविसागरस्त्व (स्तु) मगसीचूडामणी (ण) नौत्यलम् ॥७॥ ॥ इति मगसीपार्श्वदेवस्तोत्रं कुटुम्बगर्भितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org