________________
July-2004
रज्वा स्थलीनामसकृत् प्रियायाः, छित्वा द्रुत त्यक्त समेतमन्याः । आद्यं पदं दर्शितमष्टभेदं, पूर्वप्रसिद्धं हरिणाष्टकस्य ॥१॥ रज्वा दिशः प्रविवताः सलिलं विषेण पाशैर्मही हुतभुजा ज्वलिता वनान्ताः । व्याधाः पदान्यनुसरन्ति गृहीतचापाः कं देशमाश्रयति यूथपतिमूंगाणाम् ॥२॥ स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरंस्तृषातः सारङ्गो विरमति न खिन्नेऽपि मनसि । अजानामस्त(स्ति)त्वं न च मृगयतेऽन्यत्र सरसीमभूमौ प्रत्याश्या न च फलति विघ्नं च कुरुते ॥३॥ असकृदतकृत्तन्त्रष्टां मृगा मृगतृष्णिकां (?) श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः । गणयति न तन्मायातोयं हृतः सलिलाशया भवति हि म[ति]स्तृष्णान्धानां विवेकपराङ्मुखा ॥४॥ प्रियायां स्वैरायामतिकठिनगर्भालसतया किराते चाकर्णीकृतधनुषि धावत्यनुदिनम् । प्रियाप्रेमप्राणप्रतिभयवशात् पश्य विवशो मृगः पश्चादालोकयति च मुहुर्याति च मुहुः ॥५॥ छित्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद् वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्पत्य धावन्मृगः कूपान्तः पतितः करोतु विमुखे किं वा विधौ पौरुषम् ? ॥६॥ द्रुततरमितो गच्छ प्राणैः कुरङ्ग ! वियुज्यतो(ते) किमिति चलितग्रीवं स्थित्वा मुहुर्मुहुरीक्ष्यते । विदधति हतव्याधा नैते मनागपि सार्द्रतां कठिनमनसामेषामेते विलोकितविभ्रमा(:) ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org