________________
July-2004
निराचष्टे यष्टिं कुरुबकतरोरब्जसरसामसद्भावं ब्रूते वदति च(?)बकुलानामकुशलम् । वनान्ते चूतानामभवनमिहाख्यातवसतामसौ झिण्टीझोटे झट(टि)ति घटमानो मधुकरः ॥६॥ दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम् । मन्दारे मदनादरी विचकिलोपान्ते च सन्तप्यते तन्मन्ये क्वचिदङ्ग ! भृङ्गतरुणेनाऽऽस्वादिता मालती ||७|| प्रतिवेसी(शी) हंसजनः क्रीडाभवनानि पुण्डरीकाणि । हृद्य मधुजलममलं मधुकर ! तत्रै[व] यदि रमसि(से) ॥८॥ निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते । प्रियाने नो सङ्गं रचयति न चूतेऽभिरमते स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥९॥
भ्रमराष्टकम् ॥
(४) सरलित न भवति चिन्ता रूक्षं दुःप्राप वक्रमायाते । चर करभ सहितमस्यां कथितं करभाष्टकं नाम ॥१|| सरलितगलनाली कन्धरां धत्स्व धैर्यात् करभ ! लघु शमीनां ग्रासमेकं गृहाण । सरसमधुरपत्रास्ताः कुतः पीलुजात्यो हरिततरुकरीरे रे ! मरौ याः प्ररूढाः ।।२।। न भवति मिथुनानां प्रेम लावण्ययोगाज्जनयति सुखमन्तः कस्यचित् कोऽपि दृष्टः । पतति कुटिलदृष्टिदग्धदासेरकाणां जरठ भुरुटवल्लीपिञ्जरासु स्थलीषु ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org