SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 20 चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्याऽऽश्रयम् ? ॥७॥ न चरति वनराज्यां पल्लवान् शल्लकीनां न पिबति गिरिकु नैर्झरं वारि हारि । विततरदनकोटौ दत्तहस्तावलम्बो वहति विरहखिन्नः शोकभारं करीन्द्रः ॥८॥ घासग्रासं गृहाण त्यज करिकलभ ! प्रीतिबन्धं करिण्याः पाशग्रन्थिव्रणानामविरतमधुना देहि पङ्कानुलेपम् । दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तिदृष्टा रेवातीरोपकण्ठद्रुमकुसुमरजोधूसरा विन्ध्यपादाः ॥९॥ गजाष्टकम् ॥ (१५) किं जातोऽस्य न्व जातोऽसि भुक्तं मूलं तथैव च । किं ते न्यग्रोधपान्थाश्च हंहो ! वृक्षाष्टकं शृणु ॥ १ ॥ अनुसंधान- २८ किं जातोऽसि चतुःपथे घनतरं छन्नोऽसि किं छायया छन्नश्चेत् फलितोऽसि किं यदि फलैः पूर्णोऽसि किं सन्नतः । हे सद्वृक्ष ! सहस्व संप्रति चिरं शाखाशिखाकर्षणं क्षोभो मोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ २॥ जातो मार्गे सुरभिकुसुमः सत्फलो नम्रशाखः स्फीताभोगो बहलविटपः स्वादितो योपगूढः । नैवात्मार्थं वहसि महतीं पादपेन्द्र ! श्रियं तामापन्नातिप्रशमन फलाः सम्पदो ह्युत्तमानाम् ||३|| मूलं योगिभिरुद्धृतं निवसितं वासोर्थिभिर्वल्कलं भूषार्थी च जनश्चिनोति कुसुमं भुङ्क्ते क्षुधार्त्तः फलम् । छायामातपिनो विशन्ति वि ( नि ? ) चिता निद्रालुभिः पल्लवाः कल्पाख्यस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ||४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229313
Book TitleSubhashit Sanchay
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages28
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size489 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy