________________
फेब्रुआरी २०१२
ये त्वां विहाय परदेवकृतांह्रिसेवास्तेभ्यो परो भुवि नरो न जडोऽस्ति कश्चित् ॥७॥ जानन्ति केऽपि किल लक्षणतर्कविद्यां ज्योतिष्क-वैद्यक-कलासु विवेकिनोऽन्ये । मन्त्रादिभावनिपुणाः कतिचिज्जगत्सु सन्तीह नो तव निरूपणभावदक्षाः ॥८॥ आस्तां तवाऽनघ ! गुणौघरसः परेषु मुद्राऽपि नैव तव नाथ ! हि तैरवाप्ता । काम- - क्रुधादिविगुणैरनिशं भृतास्ते शान्तादिभावकलितो भगवंस्त्वमेव ॥९॥ रामारसाऽऽविलतया कलितो हि रागो द्वेषस्तु शत्रुघनघातनहेतिलक्षः । मोहः परेष्वबुधताऽऽचरणेन गम्यो
नाऽमी मया त्वयि विभो ! ऽपगुणास्तु दृष्टाः ॥१०॥ त्वद्वीक्षणाज्जिनवरेन्द्र ! शरीरभाजां
मोदातिशेषकलितं हृदयं क्षणात् स्यात् । धाराधराऽमलजलाद् भवति प्ररोहः पृथ्व्यां यथा सफलभूरुहजातियोग्यः ॥११॥ कण्ठीरवा-ऽनल-करीन्द्र-गदा- ऽहि-नीरचौरा-ऽरि-सङ्गर-महोदर-बन्धनाद्याः ।
भीता व्रजन्ति च भया (याद् ? ) रवितस्तमांसि (स्तमिश्र?)वन्नाथ ! नामजपतस्तव नास्ति शङ्का ॥१२॥
येषां जिनेन्द्र ! तव नाम हृदि प्रशस्तं
नित्यं स्थितं भवति देव ! सुखानि तेषाम् । स्युः शाश्वतानि सुरराज-नरेन्द्रसम्पद्युक्तानि मङ्गलरमावरदानि मन्ये ॥१३॥ नागाधिपोऽनलदवानलविह्वलास्यः पीयूषपूरतुलितं वचनं त्वदीयम् ।
३