________________
अनुसन्धान-५८
(१) अज्ञातकर्तृकं स्तम्भनाधिपपार्श्वनाथ स्तोत्रम् गीवार्णचक्र-नरनायकवृन्दवन्द्यं भव्यावलीकमलबोधनसूरराजम् । कल्याणकल्पतरुसेचनवारिवाहं श्रीस्तम्भनाधिपमहं प्रणमामि पार्श्वम् ॥१॥ देवाधिदेव ! तव पादपयोजयुग्मं सम्प्राप्य साधुजनलोचनषट्पदाली । प्राप्य प्रमोदमकरन्दरसं सुहृद्यं संवेदयत्यतितरां सुखपकमग्ना ॥२॥ आनन्दपूरकलिताऽमल एष घस्रो यस्मिँस्त्वदीयवदनाम्बुजदर्शनं मे । पक्षोऽतिदक्षजनवर्ण्य इहातिजज्ञे स्वान्तं त्वदीयगुणसङ्गरतं च यत्र ॥३।। मासोऽयमत्र सुखराशिनिवासभूतो वर्षं सहर्षमिति नाथ ! विचारयामि । एतयुगं सुगममत्र विवेकपूर्ण त्वपादपङ्कजमहं च यदा महेयम् ॥४॥ देवाद्रिरेष जिनराज ! न कोमलाङ्गो रत्नाकरोऽपि लवणत्वरसो न रम्यः । पक्षद्वयेऽपि दिनमेकमयं विहाय चन्द्रः कलापरिकराऽपरिपूर्णभावः ॥५॥ युक्तो महाविषधरैः किल चन्दनद्रुः प्रत्युग्रतापजनकस्तरणिः प्रतीतः । कल्पद्रुमोऽपि तरुजातिरयं विचेताः केनोपमा तव ततो मयका विधेया ॥६।। (युग्मम्) त्वं नाथ ! देवतरुतोऽभ्यधिकं वदान्य आमुष्मिकैहिकसुखौघविधानदक्षः ।