SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ यदाह - उपकारिणि वीतमत्सरे, सदयत्वं यदि तत्र कोऽतिरेकः । अहिते सहसाऽपलब्धे, सघृणं यस्य मनः सतां स धुर्यः ॥ १ ॥ तावत् कोपो विलसति, महतां क्रियते न पादयोः प्रणतिः । रामो विभीषणाय, प्रणताय स दत्तवाल्लंकाम् ॥ २ ॥ राजाऽपि जातसुखश्चिरं राज्यं भुक्तवान् । क्रमेणाऽऽर्हतो जातः । काले पण्डितमरणेन समाधिना मृतः स्वर्गे समुत्पन्नः । बुभुजे दिवि सुखम् । उक्तः षष्ठः ।।. (प्रबन्धः ७) 'लोकः यमकिङ्करप्रत्याहतिसञ्जातकाटकभाटकादिकुटकं च ततस्ते यमभक्ताः चण्डादयो दासा यमाग्रे तं पराभवं अवदन्तोऽपि स्वस्य महीमनमुण्डा इव सशिरःस्फोट भग्नाऽस्थिकूटाः झरत् झरं रुधिरं निजैरङ्गैवर्षनश्छन्ना भिन्नाङ्गा आत्मानं तथा पराभूतं दर्शयन्ति स्म । सूर्पणखेव रावणाने अजल्पन्त्यपि श्रीरामगौरवं प्रकटं चकार । यमोऽपि रोषारुणाक्षः तत्र जिनगृहे प्राप्तः । तं त्रिशङ्कं दृष्ट्वा विह्निरिवोषरपतितो विध्यातः, उल्मक इव निर्वाणः, पन्नग इव ताक्ष्याकान्तो निर्विषः, जलधिरिवागस्तिसमाकान्तो व्यतीतजलः, मार्तण्ड इव राहुमुखप्राप्तो वितेजाः जातः । ततः कृतान्तोऽयं तं देवाधिदेवं राजानं च नत्वा स्तुत्वा सर्वप्रत्यक्ष भट्ट इव कीर्तिघोषणां ततान “भो भो भव्यलोका: ! अहं काल: कलयितुमेनमागां राजानम् । नवग्रहपीडाऽपि मम साहाय्यं चकार । यद्येनमुपायं नाकरिष्यदसौ तदा ममैककवलोऽभविष्यः हे राजन् ! त्वं । अतोऽयं देवो ग्रहपीडाशान्तिकारी भवति भविनां भक्तानाम् । अन्यच्च अशुभं कर्म क्षयं याति शुभं च वर्धते । प्रबन्धं एनं उदीर्य जगाम यमः । राजाऽपि दृष्टप्रभावो बहून् जीवान् धर्मे जैने स्थिरीकृत्य स्वस्थाने गत्वा राज्यं प्राज्यं भुक्तवान् । काले व्रतं गृहीत्वा प्राप त्रिदिवम् । प्रबन्धः सप्तमो जातस्त्रिशंकोर्ग्रहशान्तिके । चरिते स्तम्भनाथस्य, महानन्दसखप्रदे ॥ १ ॥ ७ ॥ ******* १. २८-२९ तमपत्रद्वयं न, अतः पाठोऽपि त्रुटितः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229309
Book TitleStambhanadhish Prabandh sangraha Bhumika
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages60
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy