SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 12 रसो रसायनं योगो, मन्त्रो वत्तिरथाञ्जनम् । सिद्धयन्ति सर्वकर्माणि, प्रसन्ने परमात्मनि ।। १ ।। भ(भा)गीरथिप्रबन्धोऽयं, द्वितीयस्तु समर्थितः । सलिलोपसर्गहारी, चरिते स्तम्भनप्रभोः ।। इति अमन्दजगदानन्ददायिनि आचार्य श्रीमेरुतुङ्गविरचिते श्रीदेवाधिदेवपटले धर्मशास्त्रे श्रीस्तम्भनेश्वरचरित्रे पवित्रे द्वात्रिशतप्रबन्धबन्धुरे द्वितीयः प्रबन्धः !! **** * (प्रबन्धः ३) नमो ममाहते तस्मै, कस्मै भवतु भावतः । यदोजसा तमस्त्रस्तं, स्मरघस्मरकारिणा ॥ १ ॥ जम्बूद्वीपे भरते च दक्षिणस्यां दिशि विदर्भदेशे कुण्डिनपुरे मान्धाता नाम राजा । तत्पत्ती च मन्दोदरी । तयोः पुत्रो मदनदेवराजा राज्यं करोति । स्वभावात् सप्तमनरकतालककुञ्चिकाप्राये पापिनां परमप्रिये परदाराभिलाषरसे स्वभावादेव तस्य लाम्पट्यं वर्वति । तत एकदा तेन राज्ञा तन्नगरनिवासिदेवशर्मनामभूदेवप्रणयिनी रूपश्विनी नाम जलके लिविहारार्थं गतेन ददृशे । साऽप्युद्यानिका दिन निमित्तकृतमज्जना विद्युदिव समुल्लसन्ती विभ्रमेण राज्ञा बलादपहता । श्येनेन चिल्लीव नीयमाना विललाप साऽपि चिरं इति - 'हे राजन् ! हे प्रजानाथ ! राजरक्षितानि धर्मवनानि यस्मात्, वृतौ चिर्भयनि भक्षयितुं समुद्यतायां कस्याग्रे पूत्क्रियते ? । दिनकरकुलादन्धकारप्रसूतिः, सुधांशुमण्डलादङ्गारवर्षणं तदिदं जातं महाराज ! यन्मादश्या वराक्या अनिच्छन्त्या पतिव्रतलोपो विधीयते।' इत्युक्तिप्रान्त एव धर्मशास्त्रकुण्ठैर्वण्ठै राजान्तःपुरक्षिप्ता मुमूर्छ। अथ सोऽपि तत्प्रियो स्वशक्तेरसुसारेण जीवितमपि पणीकृत्य भूपं विज्ञाप्य विज्ञाप्य, सर्वेषां राजवर्गिणां कार्यस्वामिनामग्रे पूत्कृत्य पूत्कृत्य, प्रतिभवनं प्रतिजनं विलप्य विलप्य, ग्रथिलवत् भ्रान्त्वा भ्रान्त्वा, अलब्धोत्तरराजद्वारप्रवेशप्राप्तार्धचन्द्रोऽपि भस्मोद्धूलिताङ्गोऽपि कृतकौपीनोऽपि एकाक्यपि अनीश्वरत्वं प्राप्तः । ततः स द्विजः प्रियावियोगात्ततॊ जातदेशपट्टो देशान्तर लन् रङ्कवत् बुभुक्षादिमहादुःखवेदनाभिः काष्ठभक्षणेन विपन्नः पश्वादग्निकुमारो देवो जातः । काले समयं प्राप्य तेन वैरेण सर्वं ज्वालयितुं देशं सन्नद्धः । तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229309
Book TitleStambhanadhish Prabandh sangraha Bhumika
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages60
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy