________________
I
परितः । तथाकृते महानुपद्रवो बभूव । उत्वस्तं व्यन्तरकुलम् । अननुभूतपूर्व इव प्रलयकालः संवृत्तः । अवधिज्ञानेन ज्ञात्वा निजाननुलग्नान् 'तात ! मातर् ! भ्रातर् ! त्रात हे शरणवीर ! धीर ! अस्मान शरण्यान् रक्ष रक्ष' इति ब्रुवाणान् मृदुभाषणपृष्टिहस्तदानादिना विशोकान् विद्यायाष्टापदाधत्ति (धित्य) कायां शिबिरान्तः कुमाराणां पटकुटीषु सर्वास्वपि षष्टिसहस्राणि दृष्टिविषसर्परूपाणि वैकियाणि निर्माय शेषपोषपूर्णः स्वयं ज्वलनप्रभस्तम्यां (स्वां) तस्थौ । तेऽपि कुमाराः प्रगे अपनिद्रिता प्रथमोत्थान एव प्रथमाक्षिसन्निपातेनैव तं भुजगेन्द्रं तथारूपं सर्वेऽपि समकालं पश्यन्ति स्म । क्षणाद् भस्मसाद् बभूवुः । सैन्यजननाऽपि काष्ठभक्षविधिः सूत्रितः । ततः सौधर्मेन्द्रासनकम्पेन महदरिष्टमापतितं भरतखण्डे विभाव्य ममेदमाभाव्यं दक्षिणभरतार्धाधिपत्यात् निश्चित्येति सर्वसैन्यलोकं वराकं तथाऽपक्रममाणं गिरेति निवार्य 'भो लोका ! प्राणान् मा त्यजन्तु भवन्तः । राजाग्रे भो लोका ! अहं कथयिष्ये 'मृतास्ते सर्वेऽपि पुत्राः ' । सैन्यं तु सर्वमागतमकुशस्फाटं ते हे भूजाने ! | ततस्तस्यानुलग्नं अयोध्यापुरि प्रविष्टम् । सोऽपि मृतबालकपूत्कारबलेन भूभुजो दर्शनं सुलभं भविष्यति प्रपञ्चेनानेन सर्वं वृत्तान्तं कथितवान् । तमेनं मां शक्रं जानीहि त्वम् । तत्रान्तरे एक (क: ) स्थानपुरुषः पूत्कुर्वन् समेत्य भृता परिखा गङ्गाप्रवाहेण उल्लटिता च प्लाव्यते मध्यप्रदेश: इति विज्ञापनां चकार हे महाराज ! कुरु रक्षाम् । कुमारविलसितं श्रोतमुप्यशक्यम् । ततो जह्नुकुमारनामा पौत्रः पितामहं सगरं तदम्भोरक्षार्थं चलन्तं निवार्य स्वयमेकाकी प्राप्तादेशश्चचाल | रात्रिलब्धतत्ता दृशशुभस्वप्नद्विगुणितोच्छा (त्सा) हबलेन सोऽपि गच्छन् निर्भयं गगने शब्दं दैवं अश्रौषीत् - 'भो जह्रो ! कुमारश्रेष्ठ ! इदं कर्म कुर्वता भवता कस्याप्याशातना न विधेया' इति पितामहदत्तां शिक्षामाशिषमिव मूर्धा (र्ध्ना) वहन् भोः ! कल्ये माकन्दनामसरसि रुक्मिणीवटस्याधो वासवदेवकुलिकायां निवासार्थं रात्रौ स्थेयम्। तत्र विश्वेश्वरनामा देवस्ते मनोरथं पूरयिता । तथा चकार सोऽपि तद्वचः । रात्रौ तस्य कुमारस्य वासार्थं कृतस्थितेरिन्द्रादिदेवैरुपास्यमानो विश्वेश्वरनामा स देवः परितुष्टः देवाधिष्ठायकैः सतिलकाक्षतपूर्वं तस्य जह्नोः कण्ठे वरमाला न्यस्ता पृष्टहस्तश्च दत्तः । उक्तं च-गृहाणैनं दण्डं भो महावीर ! शृणु देवादेशम्- 'आगच्छतो गङ्गाप्रवाहस्य पुरा दण्डेनानेन रेखा प्रकाश्या त्वया । रेखां दष्ट्वा अजल्पिता व्याघुट्य व्रजिष्यति । भवन्नाम्ना जाह्नवी गङ्गेति प्रसिद्धि यास्यति च । तथैव जातं द्वितीयेऽह्नि । ननु अचिन्त्यो हि मणिमन्त्रौषधीगुरुप्रासाददेवताराधनशुभकर्मोदयानां प्रभावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org