________________
अनुसंधान-१५ .7
॥२०॥
॥२१॥
॥२२॥
प्रसूनबुद्ध्या मिथुनान्यलीनाम् द्यूतेन दन्ता अपि भूपतीनांये पातितास्तैश्चिरसगृहीतैः । कपर्दिकानां कपटेन यस्यां कुन्दावदातैः कितवा रमन्ते वाल्लभ्यतो हिङ्गुल-यूषयन्त्रन्यासच्छलाद्यत्र न मन्त्रविक्त:(त्कः ?) । कुर्यात् कुहूकुंभकुचाकपोलश्रीकारिणी: कुङ्कुमपत्रभङ्गीः तस्याऽभवद्वासरवासवस्याऽवसानसन्ध्यावसरः सुमेध्यः । ध्यानादमुं क्षोभयितुं नु रागैरुत्पादितव्यापकदावशङ्कः ॥२३॥ तत्राऽरुणीभूतसमस्तभावे हारोऽपि गुञ्जाफलगुम्फकल्पः । काली मुखालीमविलोक्य कालक्षेपादुपालक्षि चलेक्षणाभिः ॥२४॥ व्योम व्यरोचिष्ट विचित्रचञ्चदीधित्यदभ्रस्फुरदभ्रसालम् । वाग्देवताविर्भवनोत्सवाय प्रत्यग्रपट्टांशुकमण्डपः किम् ? ॥२५।। दीपादिषु स्वं क्षिपताऽऽतपस्वं पलायितुं वेद्मि दिनेन मुक्तः । राज्ञो दलं वीक्षितुमायदाभादस्ताचले शैखरिकः खरांशुः ॥२६॥ विष्णुं जगुः पर्वतमस्तकेऽज्ञास्तेनाऽस्तभूमीभृतिभानुदम्भात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org