________________
श्रीभारत्यै नमः ॥
Jain Education International
॥ सारस्वतोल्लास-काव्यम् ॥
कश्चिज्जनो लज्जितहज्जडिम्ना शुश्रूषित श्रीगुरुपारिजात: ।
सारस्वतं सारमवाप्य मन्त्रं
नक्तंदिवाऽजायत जञ्जपूकः
पद्मासनं पूरयति स्म जापं कुर्वन्नपापं यदसौ सशौचः । मेनेऽखिलैरस्खलितप्रसर्प
ज्जाड्यारिबन्धाय स नागपाश:
गोक्षीरधाराधवलं वसानः स (सु) कोमलं वस्त्रयुगं बभासे ।
जापादुपागत्वरशारदायाः पुरस्सराङ्गप्रभयेव लिप्त:
तस्याऽतिलोलावपि लोचनाली नालीकतुल्यं कविमातृवक्त्रम् । उद्दामसौन्दर्यमरन्दलोभा
ज्जाने जहीतः स्म न जातु जापे
भाति स्म तस्य स्फटिकाक्षमाला माला नु कल्पद्रुमकुड्मलानाम् । त्रपामि साक्षाद्यदि जातु देवीं तत्पूजयामीति करे गृहीता
तेनाऽङ्गुली पत्रलपाणिरक्ताशोकेऽक्षसूत्रस्य मिषेण बद्धा । श्रीशारदा तुष्टिवशागमिष्यद्विद्याङ्गनान्दोलनकेलिदोला
For Private & Personal Use Only
॥१॥
॥२॥
॥३॥
॥४॥
11411
॥६॥
www.jainelibrary.org