________________ अनुसंधान-२२ कार्याभ्यासस्तेषु अधिकं वीर्यम्, अन्येषु चात्मप्रदेशेषु अल्पतरमित्यर्थः // 4 // अत्रैतानि द्वाराणि-अविभाग त्ति / अविभागप्ररूपणा 1, वर्गणाप्ररूपणा 2, स्पर्धकप्ररूपणा 3, अन्तरप्ररूपणा 4, स्थानप्ररूपणा 5, अनन्तरोपनिधा 6, योगे-योगविषये परंपरोपनिधा 7, वृद्धिप्ररूपणा 8, समयप्ररूपणा ततो जीवानामल्पबहुत्वप्ररूपणेति // 5 // पन्न त्ति / केवलिप्रज्ञाच्छिन्ना अविभागा एकै कस्मिन् प्रदेशे लोकस्यासंख्येयकं -असंख्याता लोकाः तत्प्रदेशसमा जघन्येन भवन्ति, उत्कर्षतोऽप्येतावन्त एव, किन्तु जघन्यतोऽसंख्यातगुणाः // 6 // येषां प्रदेशा नो समा अविभागाः सर्वतश्चान्येभ्यः स्तोकतमाः ते घनीकृतलोकासंख्येयभागवृत्त्यसंख्येयगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा। - परं परतो यथोत्तरं एकाद्यविभागाधिका वाच्या / / 7 / / Jain Education International For Private & Personal Use Only www.jainelibrary.org