SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ January-2003 महत्त्वनी तथा आनंदनी वात छे. -xऐन्द्र श्रेणिनतं नत्वा,वीरं तत्त्वार्थदेशिनम् । अर्थ संक्षेपतः कर्मप्रकृतेर्यनतो ब्रुवे ॥१॥ सिद्धति । सिद्धं सिद्धार्थसुतं वन्दित्वा निधौतसर्वकर्ममलम् । कर्माष्टकस्य करणाष्टकं उदयसत्ते च वक्ष्यामि ॥१॥ तत्रादौ करणाष्टकमेव प्रतिपादयति- बंधण त्ति । बध्यतेऽपूर्व गृह्यते. येन तद् बन्धनम् । संक्रम्यतेऽन्यप्रकृतिरूपतयाऽऽपाद्यते येन तत् संक्रमणम् । उद्वत्येते प्रभूतीक्रियेते स्थिति-रसौ यया वीर्यपरिणत्या सा उद्वर्तना । एवमपवर्येते हस्वीक्रियते तो यया साऽपवर्त्तना । उदीर्यते उदयप्राप्तमुदयावलिकायां यया सा उदीरणा । उदयोदीरणानिधत्तिनिकाचनाऽयोग्यत्वेन व्यवस्थापनमुपशमना । उद्वर्तनाऽपवर्तनान्यकरणयोग्यत्वेन व्यवस्थापनं निधत्तिः । सकलकरणायोग्यत्वेन व्यवस्थापनं निकाचना ॥२॥ इत्येतानि करणानि । एषां वीर्यविशेषरूपत्वादादौ वीर्यमेव निरूपयतिविरियं इत्यादि । वीर्यान्तरायस्य देशक्षयेन क्षयोपशमेन छद्मस्थानां सर्वक्षयेण च केवलिनां वीर्यलब्धिर्भवति । ततस्तस्याः सकाशात् सलेश्यजीवमात्रस्याभिसन्धिजं बुद्धिपूर्वकं धावनादिक्रियाहेतुः । इतरदनभिसन्धिजं च भुक्ताहारस्य धातुमलत्वाद्यापादकं करणवीर्यं भवति सलेश्यवीर्यलब्धेर्हेतोः सदातनत्वेन तत्कार्यकरणवीर्यस्यापि तथात्वात् । यत्तु भगवत्यादावशैलेशीप्रतिपन्नानां करणवीर्यस्य भजनीयत्वमुक्तं तदुत्थानादिक्रियाहेतुबाह्यकरणमाश्रित्यैवेति ध्येयम् ॥३॥ परिणाम ति । तत्करणवीर्य योगनामधेयं परिणामालम्वनग्रहणसाधनं तेन हेतुना च परिणामादिसंज्ञया लब्धनामत्रिकं भवति । तथा हि - ग्रहणवीर्येण औदारिकादिवर्गणा गृह्णाति । परिणामवीर्येण औदारिकादिरूपतया परिणमयति । आलम्बनवीर्येण च मन्दशक्तिर्यष्टिमिव भाषादिद्रव्याणि भाषादिनिसर्गार्थमालम्बत इति । तथा कार्यस्याभ्यासो नैकट्यं परस्परं प्रवेशश्च शृङ्खलावयवानामिवैकक्रिया नियतक्रियाशालित्वम् । ताभ्यां विषमीकृताः प्रदेशा येन तत् तथा । येषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229289
Book TitleKarmprakruti Sankshep Vivaranam
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages3
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size243 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy