SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६ • 24 वक्त्रेन्दुजितवांश्च मां भुवि रुचा श्रीमद्गुरोर्व्योम्न्यलं स्वर्भाणोस्तु बिभोमि शम्भुशिरसि प्रोत्सप्पिकण्ठेोरगात् ॥१३२॥ श्रीमदच्चन्द्रगणाधिपाग्रवदनस्फूर्जत्कियज्ज्योतिषां स्तेयं कर्तुमिव प्रसारयति नक्तं [ भो ! नूनं ?] शशी स्वान् करान् । तद् बुध्वा परिवेषचारसदनेऽक्षैप्सीद्विधिस्तं ततः प्रारभ्येति निरीक्ष्य कोऽपि कुरुतां नो स्तेयभावं कदा ॥१३३॥ घृष्ट ग्रावणि ते तनूर्मलयजार्चिष्मत्प्रवेशोऽजनि स्पष्टं हे वरकाकतुण्ड ! नितरां यन्मर्दनं ते शशिन् ! | तत् कस्मात् ? शृणु सादरं गुरुमुखश्वासाधिकस्पर्धनात् तच्छ्रुत्वा स्म जहत्यशेषमपि तत् सातार्थिनस्ते पुरः ॥१३४॥ भो मुक्ताफलचक्रवाल ! भवता यन्मग्नमम्भोनिधौ यद्वेधादिमहाव्यथां च सहसे तद्बीजमज्ञासिषम् । तत् किं ? ब्रूहि शृणु त्वया किल पुरा स्पर्धा मुधा निर्ममेऽत्यन्तं शुभ्रतरैर्द्विजैश्च सुगरोर्निर्ग्रन्थचूडामणेः ॥ १३५ ॥ रक्ताङ्क ! चयत्वमे.... ती धन्योऽसि येन त्वया कृत्वा रक्तरदच्छदः शमिविभोर्व्यावर्ण्यते शिक्षितैः । तत्पुण्यादिव लब्धवानसि सखे ! सौभाग्यभङ्गी ता (त) था त्वत्पा[द?][ग्रह]णोद्यताः कजदृशः सन्तीह सर्वा यथा ॥ १३६ ॥ त्वं जानासि हि नैव मन्दिरमणे ! यद्वारुणः पञ्जरे स्पष्टं कष्टभरे पपान निबिडे कस्मादघा... त् । शुश्रूषा भवतोऽस्ति चेच्छृणु तदा श्रीमद्गुरोर्नासिका स्पर्धा मुग्धतया व्यधायि भवता तां विद्धि तत्कारणम् ॥१३७॥ आत्मीयकीर्तिपरिपूरितदिग्विभागा ये सन्ति भूमिवलये भुवनावतंसाः । श्रीमानकब्बरधराधिपतिर्निरीक्ष्य यान् मोदमाप तरणीनिव चक्रवाकः ॥ १३८ ॥ स्वात्मा तपश्चरणचारुगुणप्रकर्षेयैर्निर्धृतः सरिदधीश इवाग्ररत्नैः । Jain Education International THY For Private & Personal Use Only www.jainelibrary.org
SR No.229280
Book TitleDhanharshshishya krut Vignaptika lekh
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages27
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size481 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy