________________
अनुसंधान - १६ • 25
नन्तुं जनाश्च सकलाः स्पृहयन्ति येभ्यो बहिर्मुखा इव मुदा जगदीश्वरेभ्यः ॥१३९॥ दूरे व्रजन्ति जगतां दुरितानि येभ्यः पाथोजिनीपरिवृढेभ्य इवांस्त्रकाराः । येषां निपीय वचनामृतसङ्गभाज: संप्राप्नुवन्ति विबुधत्वमहो ! अनेके || १४०|| येषु ध्रुवं नहि गुणान् प्रतिवक्तुमीशः कोऽपि स्वबुद्धिपरितर्जितफल्गुनीज: । किं वारिधिष्विव मणीन् मरुतां पथेषु ज्योतींषि वा गणयितुं क्षमते हि कश्चित् ? ॥१४९॥ तैस्तातपादैर्गुणवर्धमानैः पयोदनादैर्निहताभिमानैः । नश्यद्विषादैर्नरनम्यमानैः पयोजपादैः सितपत्रियानैः ॥ १४२ ॥ अभीष्टदानर्भु (द्यु)तरूपमानै स्सदा युतैश्चारुगुणैरमानैः । तमस्तमोवासरकृत्समानै र्यशोवितानैर्व्वतवत्प्रधानैः ॥ १४३ ॥ स्वमूर्तिमत्पाटवसत्परिच्छद - प्रबर्हनैरुज्यसमाधिसूचकः । तथाविधोदन्तविशेषगर्भितः प्रसद्य लेखस्त्वरितं प्रसाद्यताम् ॥१४४॥ जगच्चक्षुषं वा रथाङ्गाभिधाना यथा स्तोककाः संमदाद्वारिवाहम् । चकोराः सुधाज्योतिषं संस्मरन्ति तथा संस्मरामो भवद्भव्यलेखम् ॥ १४५ ।। यथाऽहर्मुखे वेदगर्भाः स्ववेदं विनेया यथा स्वं गुरुं भूरिभक्त्या । रस (सा)लक्षमाजं यथा काकपुष्टास्तथा संस्मरामो भवद्भव्यलेखम् ॥१४६॥ यथा लब्धवर्णाः स्वकं शास्त्रवृन्दं यथाऽनेकपाः सल्लकीशाखिखण्डम् । यथा मानसं मानसौकःकलापास्तथा संस्मरामो भवद्भव्यलेखम् ॥ १४७॥ भूमीतलावनतमौलिविराजितस्य श्रीतातपादगुणसंस्मृतितत्परस्य । तातैः सदा निजविनेयकणस्य कामं स्वज्ञानगोचरतया प्रणतिर्विधेया ॥ १४८ ॥ अथाऽत्रत्य श्राद्धनामानि ॥
अत्रत्यानघसंघधूर्वहसमः श्रीआब्दिके पर्वणि प्रत्यब्दं समसंघभक्तिकरणप्रावीण्यलब्धोदयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org