SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २० धाम दधाति इत्यर्थ: ||१२|| अथ पदकस्थानस्वस्तिकचित्रमाह । स्थाप[ ना] - स्वस्तिकबन्धः घान ने न AAP वेन नत्वा नन 1943 Jain Education International रानराणामम रासुरेन नरानराणाममरासुरेन नवीनलक्ष्मीं ददतो नतेन । नमाम्यतीताननघाननेन नवेन नुत्वा न न मस्तकेन ॥१३॥ व्याख्या : अतीतान् अनघान् जिनान् अनेन नवेन - स्तवेन नुत्वास्तुत्वा मस्तकेन - शिरसा न न नमामि । द्वौ नञौ प्रकृत [म]र्थं गमयतः । अपि तु नमाम्येव । किंविशिष्टान् ?, नतेन-नमनेन नरानराणां नरा मनुष्या अनरादेवा:, नराश्चाऽनराश्च नरानराः तेषाम् । अमरासुरेननवीनलक्ष्मी - अमरा-देवाः असुरा - भवनपतय: तेषां नवीना प्रत्यग्रा लक्ष्मी:- कमला तां ददतो-वितरतः इत्यर्थः ||१३|| अथ चतुर्दशं वृत्तम् 17 - इत्थं स्वस्तिकनायकेन रुचिरा सत्कण्ठभूषाकरी येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जना: स्ते श्रीसूरिपदा[ द्] जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ पादत्र्यार्थः पूर्ववत् । चतुर्थपादो व्याख्यायते ते जिना: अस्य मे-ममश्रीसूरिपदानन्तरं जयादिपूर्वतिलकस्य - जयतिलकस्येत्यर्थ: मङ्गलं कल्याणं देयासुः - वितीर्यासुः । अपिशब्दादन्येषामपीत्यर्थ : ||१४|| इत्यागमिक श्रीजयतिलकसूरिकृताऽतीतचतुर्विंशतिकाजिनद्विती (य) हारावलिचित्रस्तवटीका समाप्ता ॥छ || ✰✰ For Private & Personal Use Only www.jainelibrary.org
SR No.229278
Book TitleChaturharavali Chitrastava
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages29
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size517 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy