________________
अनुसंधान-२०
येषां नाममयी सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैजिनाः श्रीशāजयशेखरद्युतिभृतः सर्वेऽपि ते मङ्गलम् ॥१४॥
व्याख्या : इत्थं-अमुना प्रकारेण येषां नाममयैः सुवर्णमणिभिःशोभनाक्षरमणिभिः हारावली-हारयष्टिर्नर्मिता-निर्ममे । किंविशिष्टा ?, नायकपद्मरागरुचिरा, नायकस्थाने-तरलमणिपदे चतुर्विशतिदलपद्मं तस्य रागेण रुचिरा-प्रधाना । अपरं किंविशिष्टा?, सत्कण्ठभूषाकरी । सतां कण्ठाः सत्कण्ठाः, तेषां भृषां-शोभां करोतीति सत्कण्ठभूषाकरी । अन्याऽपि हारावली भवति सा नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी भवति, सुवर्णमणिभिनिर्मीयते, अत एयाऽप्येवम् । ते सर्वेऽपि जिना मङ्गलं देयासुः-वितीर्यामः । उच्चैरतिशयेन । दिविशिष्टा जिना: ?, चारित्रप्रभदौक्षितस्तुतपदाः । चारित्रे चरण प्रभा येषां ते तथा । अपरं किंविशिष्टा: ?, श्रीशत्रुजयशेखरद्युतिभृतः । श्रीशgजयोविमलाचलः । तस्य शेखरद्युति- मुकुटकान्ति बिभ्रति-पुष्णन्तोति श्रीशजयशेखरद्युतिभृतः श्रीशजयमुकुटतुल्या इत्यर्थः ॥ अथवा-ते सर्वे जिना अमङ्गलंपापं उच्चैरतिशयेन देयासुः-छिन्यासुः । 'दो अवखण्डने' अस्य धातोः प्रयोगः । खण्डयन्त्वित्यर्थः । किविशिष्टममङ्गलम् ?, श्रीशत्रु-लक्ष्मीवैरिणम् । किविशिष्टा जिना: ?. जयशेखरद्युतिभृत:- जयशेखरकवेर्युति - कान्तिं बिभ्रति -पुष्णन्ति इत्यर्थः । अपरं किंविशिष्टाः ?. चारित्रप्र[भ] दीक्षितस्तुतपदा:- "चारित्रप्रभनामगुरोर्दीक्षित: शिष्यः, तेन स्तुतपदा- नुतांहूय इत्यर्थः । इत्यर्थान्तरेण कविनामप्रकाशः । इति वृत्तार्थः ॥१४||
इत्यागमिकश्रीजयतिलकसरिकृता हारावलिप्रथमचित्रस्तवटीका समाप्ता !
★★★
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org