________________
११
४
सदर्थमुक्तोपमतारकाय सुबन्धुरारामजयाङ्गसार ।
सदर्थमुक्तोपमतारकाय सुबन्धुरारामजयाङ्गसार ॥३॥ १. सदर्थः समर्थः । २. मुक्तोपमः। ३. तारण स्त्रीरहित (?)। ४. अङ्ग इति कोमलामन्त्रणे । ५. सा लक्ष्मी: तां राति ददाति (सार)। ६. सदर्थः सद्भिः अर्थ्यते । अथवा सन्तः रुचिरा अर्था भावा यस्य । ७. मुक्तोपमः लक्ष्मीरहितः मुक्तत्वात् । ८. तारं भास्वरं कारं (कायं) यस्य (स तारकाय)। ९. सुबन्धुः शोभनबान्धवः उपकारित्वात् । १०. अरीणां समूहः आरम् । आमा रोगाः । तेषां जयो यत्र (सुबन्धुः आर-आम-जय)। ११. अङ्गेन सारः प्रधानः (अङ्गसारः) ॥३॥
सत्यागमासारवरङ्गनाना-दराधिकान्तो लुसमाननन्द ।
सत्यागमासारवरङ्गनाऽनादराधिकान्तो लसमाननन्द ॥४॥ १. सत्यागमासारवरङ्ग । सत्यसिद्धान्तस्य (आ) सारो वर्षः तेन रम्यदेह । २. नानादराधिकान्तः-नानाभयाधिकानां मन:पीडानाम् अन्तो विनाशो यस्य (नाना-दर-अधिक-अन्त (दर:भयम्)। ३. देदीप्यमानदेह । ४. सत्याग - सदान (स-त्याग - त्यागेन-दानेन सहित)। ५. मासार श्रीवर (मा-लक्ष्मी: तस्याः सारः)। ६. वा(व)राङ्गनाः नायिकाः तासु अनादरः तेन अधिकतो रमणीयः (अधि-अधिकत: कान्तः रमणीयः । वराङ्गना-अनादर-अधि-कान्त)। ७. अलसञ्चासौ मानश्च पूजा तेन नन्दति वर्धते सः [लसश्चासौ मानश्च पूजा] (लस-माननन्द) । लसः सुशोभः ॥४॥
गुरो सदालोक नबाल भाल विभावरीनाथविभास्वभाव ।
वामेय में कामितका तनु श्री-गरो सदालोकनवाऽऽलभाल ॥५॥ १. सत् प्रधानम् । आलोको ज्ञानं यस्य (सत्-आलोक)। २. गुरुललाटे चन्द्र-विभावत् स्वभावो यस्य निर्मलत्वात् (न बाल भाल-विभावरीनाथ-विभास्वभाव । न बाल अबाल अर्थात् गुरु, लाल-ललाट, विभावरीनाथ-चन्द्र) ।
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org