________________
मार्च २००९
दोलक्खऽडयालीससया मुहजघणचवलाण पत्तेयं । पंचसयबारसोत्तरपत्थारो उभयचवलाए ॥२२॥
द्वे लक्षे अष्टचत्वारिंशच्च सहस्राणि मुखजघनचपलयोः, चपलाशब्दस्य प्रत्येकभिसम्बन्धात् मुखचपला-जघनचपलायाश्च प्रत्येकमिति पृथक् प्रस्तार इति सम्बध्यते । अत्र हि मुखचपलायां द्वितीयचतुर्थी मध्यगुरू अविकल्पावेव, एतौ च गुरुमध्यगौ कर्त्तव्याविति । प्रथमो द्विगुरुरन्तगुरुर्वा तृतीयो द्विगुरुरेव तद्भावे हि तस्य द्वितीयचतुर्थयो: गुरुमध्यगत्वं । पञ्चमोऽप्यादिगुरुत्वेन द्विगुरुत्वेन वा द्विविकल्पः, षष्ठः प्रतीत एव, सप्तमोऽपि चतुर्विकल्प इति त्रयाणां द्विकानां चतुष्कस्य च परस्परगुणने याता द्वात्रिशंद्विकल्पास्ततो द्वात्रिंशता सामान्यगाथा-पश्चिमार्द्धविकल्पानां चतुःषष्ट्यंशप्रमाणानां गुणने यथोक्तं प्रस्तारप्रमाणं मुखचपलाया भवति । एतदेव द्वितीयार्द्धवतारिणि चपलालक्षणे षष्ठस्यैकमात्रत्वादविकल्पकत्वे द्वयोर्द्विकयोश्चतुष्केन गुणने यातैः षोडशभिर्विकल्पैरविशेषगाथाप्रथमार्द्ध विकल्पानां अष्टशताधिकद्वादशसहस्रप्रमाणानां गुणने जघनचपलायाः प्रस्तारप्रमाणं भवति पञ्चशतानि द्वादशोत्तराणि ५१२ । विभक्तिलोपः प्राकृतत्वात् प्रस्तारः-प्रस्तारप्रमाणं कस्या इत्याह-उभयचपलायाः सर्वतश्चपलाया इत्यर्थः । उभया वतारिणि हि चपलालक्षणे प्रथमा॰ द्वात्रिंशदुत्तरार्द्ध च षोडशविकल्पा, द्वात्रिंशतः षोडशभिर्गुणने यथोक्तं प्रमाणं भवतीति गाथार्थः ॥२२॥
अधुना प्रकरणमुपसंहरन् तस्य प्रयोजनं विशेषो(षं) प्रयोग कर्तारं च वक्तुकाम आह
गाहाजाइसमासो छन्दोजइगुरुलहूण छेयत्यं ।
पाइयसत्थवत्थुवओगी जिणेसरसूरिणा रइओ ॥२३॥ . गाथाजातीनां पथ्या-विपुला-चपलादीनां समासः-संक्षेपो गाथाजातिसमासः तत्प्रतिपादकत्वात् प्रकरणमपि तथोच्यते इति । जिनेश्वरसूरिणा रचित इति सम्बध्यते । किमर्थमिथ्याह-छन्दोयतिगुरुलघूनां छेदार्थं, छेदः - परिच्छेदः परिज्ञानमिति यावत् । केषां ? छन्दोयतिगुरुलघूनां छन्दश्च गाथाछन्द एवं सामान्यतो विशेषश्च तत्रैव विरामो लघुश्च-लघ्वक्षरं गुरुश्च-गुर्चक्षरमेव, ततस्तेषामयं विरामस्तस्य यथा परिच्छेदो भवति तथा दर्शितमेव । प्राकृतं च-तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org