SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर २००८ ' तत्राऽऽययुर्जनाः सर्वेऽप्यभयेनेति भाषिताः गृह्णात्विमा स यो वह्नि, जलं नारीं च वर्जयेत् ॥९०॥ लोकोत्तरमिदं लोके, कर्तुं को नु प्रभुः प्रभो !? | तेषु विज्ञपयत्स्वेवं भूयोऽप्यभिदधेऽभयः ॥९१॥ यदि युष्मासु नेदृक्षः कोऽपि रत्नान्यमून्यहो ! । काष्ठभारिकसाधोस्तत् सन्तु तत्त्रयवर्जिनः ॥ ९२ ॥ ॥९२॥ सत्यं पात्रमयं दान-स्येदृशस्य महामुनिः । धिगस्मान् हसितो यैः स इत्यूचुरभयं जनाः ॥ ९३॥ मुनेरस्योपहासाधं, तन्न कार्यमतः परम् । अभयादिति शिक्षां ते स्वीकृत्याऽथ जना ययुः ॥९४॥ बुद्ध्या स्वर्गिगुरुस्पद्ध-त्यभयः पितृभक्तिभाक् । निरीहो धर्ममर्मज्ञो, राज्यं पितुरपालयत् ॥९५॥ श्राद्धधर्मे राजचक्रे, चैष द्वादशधा स्थिते । प्रमादं दूरतः कृत्वा, जजागार दिवानिशम् ||१६|| अमन्देनाऽपि सा तेन, मतिब्राह्मी सुसङ्गता । कस्य चित्रीयते नैव, श्रेयः सिद्धिं वितन्वती ||१७|| यथाऽखिलं बाह्यमरातिवृन्दं, मतिप्रपञ्चेन स तेन तेन । तथा जिगायाऽऽन्तरमप्यखिन्नो, जितेन्द्रियत्वेन सुदुष्करेण ॥९८॥ [ उपेन्द्रवज्रा ] ॥ इत्यभयाभ्युदयनाम्नि महाकाव्ये द्वितीयसर्गः ॥ छ ॥ ऐं नमः [ तृतीयः सर्गः ] चैत्येऽन्यदा गुणशिले त्रिशलातनूजः, स्वामी समागमदमत्त्र्त्यनिषेवितांह्निः । तत्राऽऽशु निर्मितमथ त्रिदशैर्यथार्ह, Jain Education International तद्देशनासदनमुद्यदमन्दधाम ||२१|| [ वसन्ततिलका] १९ For Private & Personal Use Only www.jainelibrary.org
SR No.229269
Book TitleAbhayabhyuday Mahakavya
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages27
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size486 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy