________________
पध्माकरेषु जलजानि विकासभाज्जि|9||
नात्यद् भुतं भुवन-भूषण भूत-नाथ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति||10||
द्रष्ट वा भवन्तमनिमेष-विलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः। पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः क्षारं जलं जल-निधे रसितुं कः इच्छेत् ||11||
यैः शान्त-राग-रुचिभिः परमाणुभिस्त्व निर्मापितस्त्रिभुवनैक-ललाम-भूत तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रुपमस्ति|12|
वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि निःशेष-निर्जित-जगत्त्रितयोपमानम् बिम्बं कलंक-मलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डु-पलाशकल्पम्|13|
सम्पूर्ण-मण्डल-शशांक-कला-कलापशुभ्रा गुणास्त्रिभुवनं तव लगंधयन्ति ये संश्रितास्त्रिजगदीश्वर-नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् 14|
चित्रं किमत्र यदि ते त्रिदशागंगनाभिनीतं मनागपि मनो न विकार-मार्गम् कल्पान्त-काल-मरुता चलिताचलेन किं मन्दराद्रि-शिखरं चलितं कदाचित् 15|
निर्धूम-वर्तिरपवर्जित-तैल-पूरः क्रत्स्नं जगत्त्रयमिदं प्रकटी-करोषि गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः|16|
नास्तं कदाचिदुपयासि न राहु-गम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति नाम्भोधरोदर निरुद्ध-महा-प्रभावः सूर्यातिशायि-महिमासि मुनीन्द्र! लोके 17|