________________
नित्योदयं दलित- मोह-महान्धकारं गम्यं न राहु-वदनस्य न वारिदानाम्| विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्व-शशांक-बिम्बम्|18|
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ निष्पन्न - शालि-वन-शालिनि जीव-लोके कार्यं कियज्जलधरैर्जल - भार नम्रैः | 19 |
ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु |
तेजः स्फुरन्मणिषु याति यथा महत्वं तु काच-शकले किरणाकुलेsपि | 20 |
नैवं
मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु ह्रदयं त्मयि तोषमेति | किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरित नाथ! भवान्तरेऽपि | 21 |
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता सर्वा दिशो दधति भानि सहस्र - रश्मिं प्राच्येव दिग्जनयति स्फुरदंशुजालम् |22|
त्वामामनन्ति मुनयः परमं पुमांसमादित्य-वर्णममलं तमसः पुरस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः |23|
त्वामव्ययं विभुमचिन्त्यमसंख्यामाद्यं
ब्रह्माणमीश्वरमनन्तमनगंकेतुम्
योगीश्वरं विदितयोगनेकमेकं ज्ञानस्वरुपममलं प्रवदन्ति सन्तः | 24 |
बुद्धस्त्वमेव विबुधार्चित-बुध्दि-बोधात् त्वं शकंरोऽसि भुवन-त्रय- शकंरत्वात् धातासि धीर! शिव-मार्ग-विधेर्विधानात् व्यक्तं त्वमेव भगवन्तुरुषोत्तमोऽसि | 25 |
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय |