________________
Vol. I.1995
श्रीपार्थनाग विरचित...
अनुभूतं सकलमिदं, पूर्वार्जितकर्मपरिणतिवशेन । संसारे संसरता, प्रत्यक्षं जीव ! भवतेह ॥१॥ मनसापि न वैराग्य, व्रजसि मनागपि तथापि मूढात्मन् !। गुरुकर्मप्रारभारा-वेष्टित ! निर्नेष्टसचेष्ट ! ॥६॥ उद्विजसे दुःखेभ्यः, समीहसे सर्वदेव सौल्यानि। अथ च न करोति तत्त्वं, येन भवत्यभिमतं सकलम् ॥७॥ यज्जीव ! कृतं भवता, पूर्व तदुपागतं तवेदानीम् । किं कुरुषे परितापं, सह मनसः परिणतिं कृत्वा ॥८॥ यदि भोः पूर्वाचरितैरशुभैः, संदीकितं तवाशर्म । तत्किं परे प्रकुप्यसि, सम्यग्भावेन सह सर्वम् ॥९॥ मा ब्रज खेदं मागच्छ, दीनसां मा कुरु कचित्कोपम् । तत्परिणमत्यवश्यं, यदात्मनोपार्जितं पूर्वम् ॥१०॥ सुखदुःखानां कर्ता, हर्ताऽपिन कोऽपि कस्यचिजन्तोः इति चिन्तय सद्भुद्ध्या, पुराकृतं भुज्यते कर्म ॥११॥ तत्प्रार्थितमपि यत्नान्, न भवेदिह यन्न पूर्वविहितं स्यात् । मनसि न कायः शोको, यद्भाव्यं तबलाद्भवति ॥१२॥ क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सु । इत्येष सतां मार्गः, अयणीयः सर्वदा धरिः॥१३॥ पूर्वकृतसुकृतदुष्कृतदशेन, यदिह हंत सम्पदो विपदः । आयान्ति तदन्यस्मिन, कृतेन किं तोषदोषेण ॥१४॥ यदिपूर्वकर्मवशवर्तिनो, जनाः प्राप्नुवन्ति सुखदुःखे। तो निमित्तमात्रं, परो भवत्पत्र का प्रान्तिः ॥१५॥ मित्रं भवत्यमित्रं, स्वजनोऽपि परोन बन्धुरपि बन्धुः। कर्मकरोऽप्यविधेयः, पुंसां हि परामुखे दैवे ॥१६॥ न स्वामिनो न मित्रान्न, बान्धदात्पक्षपातिनो न परात् । किंबहुना कस्मादपि, न सरति कार्य विधौ विमुखे ॥१७॥ यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते। तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org