________________
• अभ्यास-वैराग्याभ्यां तन्-निरोधः ॥१२॥ तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥ स [?] तु [?] दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृट-भूमिः ॥१४॥ दृष्टानुसूविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् ॥१५॥ तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् ॥१६॥ वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः ॥१७॥ विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषोऽन्यः ॥१८॥ भव-प्रत्ययो विदेह-प्रकृति-लयानाम् ॥१९॥ श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् ॥२०॥ तीव्र-संवेगानाम् आसन्नः ॥२१॥ मृदु-मध्याधिमात्रत्वात् ततोऽपि विशेषः ॥२२॥ ईश्वर-प्रणिधानाद् वा ॥२३॥ क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥२४॥ तत्र निरतिशयं सर्वज्ञ-चीजम् ॥२५॥
१४. स तु om. in Vivarana. These two words could originally have been a part of
the Bhāsya. °कालादरनै° Kss. °त्कारसे Kss.