________________
नमो आयरियाणं ।
(श्री अभिधानराजेन्द्रकोषस्य आयरिय शब्दस्य व्याख्यानुसारेण)
संकलनकर्ता - मुनिराज जयानंदविजयजी
जिणाण आणम्मि मणं हिजस्स, णमो णमो सूरि दिवायरस्स। छत्तीसबग्गेण गुणायरस्स, आयारमग्गं सुपसायस्स॥१॥ सूरिवरा तित्थयरा सरीसा, जिणिन्द मग्गं मिणयंति सिस्सा। सुत्तत्थ भावाण समं पयासी. ममं मंणसि वसिओ णिरासी॥२॥ ॥ श्रीमद् राजेन्द्रसूरीणांकृतः श्री नवपदपूजायां॥ ॥ आचार्याणां नमस्कारः॥ “आयार देसणाओ पुज्जा परमोवगारिणो गुरवो" पूज्या: परमोपकारिणो गुरवः स्वयमाचारपरत्वात्, परेभ्यश्चाऽऽचारदेशनादिति। । “अ. रा. कोष. तृतीय भाग पृ. १८३९॥ "नमस्यता चैषामाचारोपदेशकतयोपकारित्वादिति"
"भगवतीसूत्र शतक १ उद्देश १" - "आचार्य नमस्कारे फलं यथा"
आयरिय नमोक्कारो, जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो, होइ पुणो बोहिलाभाए॥ १॥ आयरिय नमोक्कारो, धन्नाणभवक्खयं करेंताणं। हिययं अणुमोयंतो, विसोत्तिया वारतो होई॥ २॥ आयरिय नमोक्कारो, एवं खलुवणित्तोमहत्थोत्ति। जो मरणं मिउवग्गे, अभिक्खणं कारए बहुसो॥ ३॥ आयरिय नमोक्कारो, सव्व पावप्पणासणो।
मंगलाणं च सव्वेसिं, तइयं हवइ मंगलं॥ ४॥ "आचार्यशब्दस्य व्याख्या
आचर्यते असावाचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यते इत्यर्थः।
आ-मर्यादया तद्विषयविनयरूपया चर्य्यन्ते-सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकांक्षिभिरित्याचार्याः। उक्तं च सुत्तत्थविऊ लक्खण-जुत्तो गच्छस्स मेढि भूओ य। गणतत्तिविप्पमुक्को अत्यं वाइए आयरिओ॥ १॥ अथवा आचारो-ज्ञानाचारादिः पञ्चधा, आ-मर्यादया वाऽऽ चारो-विहार: आचारस्तत्र साधवः स्वयंकरणात्प्रभाषणात्प्र
दर्शनाच्चेत्याचार्याः।
आह च (आवश्यक - निर्युक्तौ) पंचविहं आयारं, आयरमाणा तहा पयासंता। आयारं देसंता आयरिया तेणकच्चंति॥ ९९४॥
अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः चाराः हेरिका ये ते आचारा: चारकल्पा इत्यर्थः युक्ताऽयुक्त विभाग
निरूपणनिपुणा विनेया अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतयेत्याचार्याः। "भगवतीसूत्रस्यप्रथमशतकस्य प्रथमोद्देशे"
"चर्" गतिभक्षणयोः आङ् पूर्वः। आचर्यते कार्यार्थिभिः सेव्यते इत्याचार्य:। आ.नि.
आङ् मर्यादाभिविध्योः चरिर्गत्यर्थः मर्यादयाचरन्तीत्याचार्याः आचारेण वाचरन्तीत्याचार्याः। आ. चूर्णि। "आचार्य पदस्य निक्षेपः"
नाम ठवणा दविए भावे चउविहोय आयरिओ। दव्वंमि एग भविआइ, लोइए सिप्पसत्थाई। इह नाम स्थापने सुगमे। द्रव्यविचारे पुनराह आगम दव्वायरिओ, आयार वियाणओ अणुवउत्तो। नो आगमओ जाणय-भव्वसरीराइरित्तोऽयं॥ ३१९१॥ भविओबद्धाऊ अभि-मुहो मूलाइ निम्मिओवाऽवि। अहवा दव्वबभूओ दव्व निमित्तायरणओवा॥ ३१९२॥ शरीरभव्यशरीरव्यतिरिक्तस्त्वाचार्योऽयंकः इत्याह -
एक : भविको, बद्धायुष्क: अभिमुखनामगोत्रश्चेत्यर्थः। तथा मूलगुण निर्मित: उत्तरगुणनिर्मितश्च तद्व्यतिरिक्तोद्रव्याचार्यो मन्तव्यः। तत्र मूलगुणनिर्मित आचार्यशरीरनिवर्तनयोग्यानि द्रव्याणि उत्तरगुणनिर्मितस्तु तान्येव तदाऽऽकारपरिणतानीति। अथवा द्रव्यभूतोऽप्रधान आचार्य्यस्तद्व्यतिरिक्तो द्रव्याचार्यः प्रतिपाद्यते। यो वा द्रव्यनिमित्तेनाचरतिम चेष्टतेस द्रव्यनिमित्तातरणाद् द्रव्यनिमित्तेनाचरणाद्रव्याचार्यः। स च लौकिकोलौकिकमार्गेण शिल्पशास्त्रादि विज्ञेयः। य: शिल्पानि निमित्तादिशास्त्राणि च ग्राहयति स इहोपचारात: शिल्पशास्त्रादिरुक्तः। अन्ये त्विमं शिल्पशास्त्राचार्य्य लौकिकं भावाचार्य व्याचक्षते।
श्रीमद् जयंतसेनसूरि अभिनंदन अंथ/वाचनाना
३४
क्रोध आगमें जो गया, उस के सद्गुण नाश । जयन्तसेन दूर रहो, होगा स्वतः विकास ॥
www.jainelibrary.org
Jain Education International
For Private & Personal use only