________________
॥ श्रीः॥
प्राकृतप्रकाशः 'मनोरमा'-'चन्द्रिका-पाख्याद्वयोपेतः।
प्रथमः परिच्छेदः जयति मदमुदितमधुकरमधुररुताकलनकूणितापालः। करविहितगण्डकण्डूविनोदसुखितो गणाधिपतिः ॥१॥ वररुचिरचितप्राकृतलक्षणसूत्राणि लक्ष्यमार्गेण । बुद्ध्वा चकार वृत्तिं संक्षिप्तां भामहः स्पष्टाम् ॥२॥
आदेरतः ॥ १॥ अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्याम आदेरतः स्थाने तद्भवतीत्येवं वेदितव्यम् । आदेरित्येतदाऽऽपरिच्छेदसमाप्तः। अत इति च आकारविधानात् । अत इति तकारग्रहणं सवर्णनिवृत्त्यर्थम् ॥१॥
याऽऽ लक्तकरक्तचन्दनमधुव्राताधरद्योतिनी विद्युत्कुङ्कुमरत्नकुक्कुटशिखाखद्योतभाभ्राजिनी । उल्काकोकिलटक्चकोरनयनाशोकद्युतिस्वामिनी.
सेयं विष्णुपदप्रभा विजयते संसारतस्तारिणी॥ आदेरतः-इत ऊर्ध्वम् पादपरिसमाप्तेः श्रादेरित्यधिक्रियते । अतः इति तु 'अदातो यथादिषु वे'त्यतः प्राक् ॥ १॥
यह अधिकारसूत्र है। पादसमाप्ति तक जो कार्य विहित होगा वह आदि को ही होगा और 'अदातो यथादिषु वा' के पूर्व २ अतः हस्व अकार को कार्य होगा ॥१॥
आ समृद्धयादिषु वा ॥२॥ समृद्धि-इत्येवमादिषु शब्दष्वादेरकारस्याऽऽकारो भवति वा समिद्धी सामिद्धी । (१-२८ क = इ, ३-१ दलोपः, ३-५० द्वित्वम् , ३-५१ ध् = द्, ५-१८ दीर्घः) पअडं, पाअडं। (३-३ रलोपः, २-२ कलोपः, २-२०
१. क्वचिद्-आ आकारविधानाद् पाठः। २. 'अन्त्यस्य हलः' ४-६ इति सोलोपः, एवं सर्वत्र सोलोंपे बोध्यम् ।