________________
-
चतुर्थः परिच्छेदः । नो--नं. (२५) नो, णः सर्वत्र। (५) सर्वत्र लबराम् । (९) ऋनोऽत् । (१८) पो वः । (२) कगचजतदपयवां प्रायो लोपः।
दाढादयो बहुलम् ॥ ३३ ॥ इति श्रीवररुचिविरचिते प्राकृतप्रकाशे चतुर्थः परिच्छेदः ।
दाढा-इत्येवमादयः शब्दा बहुलं निपात्यन्ते दंष्ट्रादिषु । दंष्ट्रा = दाढा । इदानी-एहि । दुहिता = धीआ, धूदा' । चातुर्य = चातुलिअं। मण्डूका मण्डूरो । गृहनिहितं = घरेणिहितं । उत्पलं = कन्दोटो । गोदावरी-गोला। ललाटं -णिडालं । भूः = भुमआ । वैदूर्य = वेलुरिअं। उभयपावअवहोवासं। चूतः = माइंदो, माअंदो। दंष्ट्रादिषु दाढादयो निपातसिद्धाः शब्दाः संस्कृतशब्दानुसारेण देशसंकेतप्रवृत्तभाषाशब्दानुसारेण च यथा यथं लिङ्गेषु प्रयोज्याः, स्पष्टाश्चैतेऽतोऽलं विस्तरेण । आदिशब्दोऽयं प्रकारे, तेन.सर्व एव देशसंकेतप्रवृत्तभाषाशब्दाः परिगृहीताः ॥ ३३ ॥ इति श्रीभामहविरचिते प्राकृतप्रकाशव्याख्याने संकीर्णविधिर्नाम चतुर्थः परिच्छेदः ।
दाढादयो बहुलम्-'श्रुतानुमित्यध्याहारैर्वाक्यार्थपरिकल्पन'मिति सिद्धान्तादयमर्थः-दंष्ट्रादीनां स्थाने दाढाद्या शब्दा निपात्यन्ते । बहुलग्रहणाद् यथायथं प्रत्ययलोपागमवर्णदिकाराः कल्पनीयाः । तथा च
दंष्ट्रा-ललाट-पत्तीनां स्यु वो व्याकुलस्य च । दाढ़ा-णिडाल-पाइक-भुमा-चावलाः क्रमात् ॥ १॥ अधो-चैदूर्य-शुक्तीनां वधू-भ्रमितशब्दयोः । हेह्र वेरुल्लिअं सुप्पी अउज्मा चाथ भामिअं ॥२॥ दुहित्राकृष्टयोस्तद्वत् स्यात् श्वश्रूलेलिहानयोः । . धूत्रा आअटठिअं चैव अत्ता ललकमेव च ॥ ३ ॥ मण्डलीसमयेदानींनिलयानां भवन्त्यमी । विचिल्लिनं च अच्छुकं एण्हि चाथ निहेलणं ॥ ४ ॥ कडसी अवहो आसं श्मशानोभयपार्श्वयोः ।। उत्पलस्य तु कंदो कोडं कौतूहलस्य च ॥ ५ ॥ स्यात् लजालुइणी चेति लज्जावत्या निपातनम् ।
शालिवाहनशब्दस्य हालो शालाहणो तथा ॥ ६ ॥ १. का पा० दिक्षी, शिवा, दिडी, धुषा। २. का० पा० भूमणा ।
-