SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः इति । चन्द्रिकाकारैः सञ्जीवनीसुबोधिन्योरुद्धृत्य प्रदर्शिता इत्यनुमिनुमः । वाराणसेय - सरस्वतीभवन- प्रन्थमालाया एकोनविंशे पुष्पे भागद्वयेन तृतीयतुरीये बसन्तराजकृतप्राकृतसञ्जीवनी, सदानन्द निर्मित सुबोधिनीत्याख्ये व्याख्ये अपि नगम ( अष्टम ) परिच्छेदान्ते प्रकाशिते स्तः । प्रकरणवशात् प्राकृतव्याकरणविषयकानामेषामन्येवामपि प्रन्यानां विषये सामान्यः परिचयः प्रदर्श्यते— १ प्राकृत प्रकाशः श्रीवररुचिप्रणीतः प्राचीनतमः । समयादि तु नोपलभ्यते । वररुचेर्नाम कात्यायनेन सह सम्बध्यते । कात्यायनेति वररुचेर्गोत्रनामेति केचित् । अद्ययावत् चतस्रः प्राचीना व्याख्याः सन्ति, मासु भामहरचिता मनोरमा प्रथमा, कात्यायमकृता प्राकृतमशरी पद्यमयी द्वितीया, वसन्तराजनिर्मिता प्राकृतसञ्जीवनी तृतीया, सदानन्दप्रणीता सुबोधिनी तुरीया । पश्चमी तु नव्या प्रकाश्यमाना चन्द्रिकारुया । २ प्राकृतलक्षणम् ——चण्डकृतम् । विभक्तिस्वरव्यञ्जनविधानात्मकविभागान्वितं कलि कातानगरीतः प्रकाशितचरम् । न विशेषः समुपलभ्यते । ३ सिद्धहेमचन्द्रम् - हेमचन्द्र प्रणीतम् । विशालं स्पष्टमत्युपयोगि च । एतस्य दुण्डिकापर पर्याया प्राकृतप्रक्रियावृत्तिनाम्नी व्याख्या उदयसोभाग्यगणिनिर्मिता । एतस्य समयस्तु ११७२ ईशवीय इत्यैतिहासिकाः । ४ संक्षिप्तसारः - क्रमदीश्वरकृतः । समयानुपलम्भः । अस्य तित्रो व्याख्याः श्रूयन्ते - जूमरनन्दिन् कृता रसवंती, चण्डीदेवशर्मकृता प्राकृतदीपिका, विद्याविनोदाचार्यनिर्मिता प्राकृतपादटीका । तिस्रोऽप्येता श्रमुद्रिताः । ५. प्राकृतव्याकरणम् - त्रिविक्रम देवकृतम् । वाल्मीकिसूत्रव्याख्येति केचिन्मतम्, स्वसूत्रव्याख्येत्यन्यमतम्, हेमचन्द्रसूत्राणां वृत्तिरिति तृतीयं मतम् । अस्य समयस्तु १२३६ - १३०० ईशवीयशतकम् । ६ प्राकृतरूपावतारः - सिंहराजनिर्मितः । अयं सिंहराजः त्रिविक्रमप्रन्यस्थसूत्रानुयायो १३०० - १४०० ईशनीयशतकस्थः । ७ षड्भाषाचन्द्रिका - लक्ष्मीधर निर्मिता । लक्ष्मीधरस्तु सूत्रकर्तारमादिकविं बाल्मीकिमेव प्रतिपादयति । समयस्तु १५४१ - १५६५ ईशवीयं शतकम् । त्रिविक्रमसिंहराजलक्ष्मीघरर्व्याख्यातानि सूत्राणि तु समानान्येव । ८ प्राकृतसर्वस्वम् - मार्कण्डेयकवीन्द्रकृतम् । भार्याछन्दोमयं स्वोपज्ञवृत्तिसहितम् । विशेषस्तु द्रष्टव्योऽन्यत्र । ९ प्राकृतकल्पतरुः- रामशर्मतर्कवागीशनि मंतः पद्यमयः । एष लङ्केश्वरकृतप्राकृतकामधेनुमाधारीकृत्य निर्मितवानिति स्वत्रन्थे प्रत्यपादयत् । एतदतिरिक्ता अपि केचन प्रन्याः प्राकृतव्याकरणविषये सन्ति, आसन् वेति अन्य काराणामन्वेषकाणां चोद्धरणादिभिः प्रतीयन्ते । सकर्तृकाणां तेषां नामोल्लेख
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy