________________
उपदेश
१४४८ ||
दृष्ट्याऽहिरियोपलक्षितुं स्यात्संयमो दुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चणीया, यवा मुखेनाखमर्पणीयाः ।। ३८ ।। यथोग्रकष्टाय च जातवेदः शिखाप्रपानं भुवि जायतेऽदः । श्रामण्यकं पुत्र तथाऽवसेयं स्वयौवने दुष्करमप्रमेयम् ।।३९।। दृतिर्न यद्वत्सुकराऽनिलेन स्यात्कस्यचित् पूरयितुं बलेन । क्लीवेन नो पालयितुं प्रपार्यते, तद्वद्यतित्वं न तमोऽपि वार्यते ||४०|| स्यादुष्करस्तोलयितुं यथा 'नुस्तुलाधिरूढः किल रत्नसानुः । तथा चरित्राचरणं गवेध्यं, कष्टाय निःशङ्कतया विशेष्यम् ||४१ || न स्थात्तरीतुं सुकरो भुजाभ्यां रत्नाकरो यदसावुभाभ्याम् । तथोपशान्तेर्दे मबीचि - माली, स्याद्दुग्तरः पुण्यपथांशुमाली ||४२ || मनुष्य भोगानुपभुङ्क्षवं पञ्चप्रकारयुक्तास्त्वमतः सदश्वः । भुक्तेष्टभोगस्तदनूदहाहो, भूयाः सधर्मः परिघाबाहो ||४३|| ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । सुदुष्करं विश्विदहो नरस्य, स्याल्नेह लोके तृपयोज्झितस्य ||४४ || सोहा अनन्ताः स्वमनःशरीरजा दुर्वेदना नित्यमिमाः समं रजा । प्राप्तानि दुःखानि घनंनसा भयान्यमून्यनेकान्यपि सर्वतो मया ॥ ४५ ॥ स्फुरञ्जरामृत्युभयात्त्यंरण्ये, भवेऽत्र चातुर्गतिके.
गये। भयप्रपूर्णेऽहमनेॠकृत्वः, सोढा हा जन्ममृतीरसत्त्वः ||४६ || जाज्वल्यमानो भुवि याशोऽत्र, प्रोष्णस्ततोsoft स 'बीहोत्रः । यन्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोष्णजातम् ||४७ | लोकेऽस्ति यादग्वियमंत्र शीतं तदस्स्थतोऽनन्तगुणं प्रणीतम् । सापि स्वदुष्कर्मकृतापराधात्सोढा मया नारकशीतबाधा ||४८|| आक्रन्दकर्तापदोऽप्यधस्यस्फुरच्छिराः कप्टभरेरसुम्थः । ज्वालाकुलेऽहं ज्वलनेऽस्मि शुक्लः कुम्भीगतोऽनन्तश एवं पक्तः ||४९ || १ नरस्य २ हे पुत्र, ३ अग्नि
सप्ततिका.
||४४८||