________________
उपदेश
मप्लनिक
॥४॥
॥ प्रथमावृत्तेः प्रस्तावना ।। विदांकुर्वन्तु शेमुधीजुषो विद्वांसइट किल जैनदर्शने दुयानुगोगो गणितानुयोगश्चरणकरणानुयोगो धर्मकथानुयोगश्चति चत्वारोऽनुयोगा मुख्यत्वन प्रतिपादिताः । तत्रैकैकस्मिन्ननुयोगेज्नेकेषां विषयाणामन्तर्भावत्वेन प्रसक्तानुप्रसक्तत्वेन च रत्नाकररत्ननिकराणामि वामेयत्वं दरोदृश्यते । तत्र द्रव्यानुयोगे कार्मणादिग्रन्थाः प्रविष्टाः, गणितानुयोगे भूगोलखगोलविषया: प्रतिपादिताः, चरणकरणानुयोगे साधुश्राद्धानामाचारादिग्रन्था ग्रथिताः, धर्मकथानुयोगे च धार्मिकनैतिकैतिहासिकादिविविधविषयाश्रितमहापुरुषादिष्टान्तद्वारेण धर्मोपदेशा उपदिष्टा: । तत्र चोपदेशमाला-उपदेशप्रासाद-सम्यक्त्वसप्ततिका-कर्परप्रकगदयो ग्रन्था आचारप्रतिपादकत्वाच्चरणकरणानुयोगे समवतरन्ति मुख्यतया, तथापि तत्तद्धर्मविषयोपदेशानां दृष्टान्तद्वाराढ़ीकरणाद्धर्मकथानुयोगेऽपि । मुख्यतया धर्मकथाप्रतिपादकानि च त्रिषष्टिशलाकापुरुषादिचरित्राण्यपि आचारादितात्यय परतया प्रायश्वरणकरणानुयोगीन्यपीति उत्तरानुयोगद्वयं प्रायो नित्यसंबद्धमेव । तथा चायमपि उपदेशसप्ततिका नाम ग्रन्थोअनुयोगद्वयप्रतिपादकः । यद्यपि मूलेऽस्य केवलाचार एवाभिहितः तथापि मूलकारेणेवास्य स्वकृतटीकायां कथानुयोग: स्फुटमेव प्रकटितः । एवंविधा एव कथाद्वारेण धर्मोपदेष्टारो ग्रन्थाः प्राय ऐदंयुगीनाल्पायुर्मेधाज्ञानानामासनोपकारिण इति मन्यामहे ।
॥४॥