________________
।। ३४९ ।।
ताम् ॥१४॥ वीनिया तथा यस्यातिकुत्सितं रूपम् । तञ्जीवितमपि विमिदं वादिन्या धूत्कृतं प्रति तम् ||१५|| गीतिरपि निन्दनीया दन्तुरवदनस्य कृष्णवपुषा । रूपवियुक्तेन हि किं क्रियते गुणगौरवेणास्य ॥ १६॥ इति निन्दन्ती सुदती जगाम धाम स्वकीयमाश्वेषा । सौभद्रीय विलासितमस्मै केनापि किल कथितम् ॥१७॥ रुष्टोऽथ पुष्पालः कथं निकृष्टा तथाऽपि पापा | मामिति निन्दति निर्हेतुका हि मद्वैरिणी जसे ||१८|| न हि मर्म बन्दिaat afr शस्त्रपाणिनं चापि । वयं च सूपकारं प्रकोपयेज्ज्ञानवान् स्वगुरम् ||१९|| कस्मादपि तदुपायादपायमस्याः करोमि बुद्धाऽपि । देशान्तरसंस्थितमेवेत्य तस्या विवोढारम् ||२०|| तत्समासन्नमसा सौमनस्यादुपेत्य सामर्षः । स यथा हि सार्थवाहचचाल विषयान्तरं निलयात् ||२१|| धनमर्जितं प्रभूतं यथाऽऽप पृथ्वीपतेव सन्मानम् । प्रस्थाय ततः कुशलेनात्मीयोद्दामधामायात् ॥२२॥ इत्यादि सकलमेतचरितं मतिकल्पितस्वगीतमतम् । निर्माय रजनिसमये जगौ महामञ्जुलध्वनिना ||२३|| कलगीतमनेन तथा गीतं स्फीतं यथा सुभद्रायाः । विरहानलः प्रकामं सर्वाङ्गे दीप्ततां प्रापत् ||२४|| मोटयति निज देहं चित्ते चापल्यमाकलय्याशु | रागोरगविषलहरीव्यामा प्राप्ताऽतिविषमदशाम ||२५|| सोवोपरिस्थमप्यात्मानं भवतिनं हि सा मेने । कः कलयति वैकल्यं न कलावानपि हि कामार्तः ॥ २६ ॥ गेये रसप्रयाते ज्ञाते स्वकान्तवृत्तान्ते । साssकाशे निजपादं दत्वा भूमौ पपात रयात् ||२७|| तस्मात्प्रहारमूर्छा - वशान्मनोजन्मरागभर विवशा । मरणं शरणीचक्रे वक्रे देवे कुतः सौख्यम् ||२८|| कुश्वेति वैरनिर्यातनं घनं पुष्पशालको मुमुदे । अन्यत्र जगाम पुरे निर्वाहं गीतिभी रचयन् ॥ २९ ॥ इत्थं क्षोत्रेन्द्रियवशगता सा सुभद्राऽस्तभद्रा, संप्राप्तास्तं धनपरिजन प्राणनाथप्रमुक्ता । दुःखिन्यासीदिह परभवेऽप्युप कष्टकपात्र, भावित्येवं श्रवणजरसः प्राणिनां
।। ३४९ ।।