________________
उपदेश
३०४।।
स्तधताभ्यस्तकल: स बालः ।।७६।। रामोऽप्यपृच्छत्स्वमतेनिमित्तं नैमित्तिकात्सोऽपि तदाऽवदत्तम् । यो भोक्ष्यतेऽम् सप्ततिका परमान्नभूता दंष्ट्रास्त्वदीयासनगः प्रभूताः ७७।। ततो भयं भावि तवेति मत्वा तज्ज्ञानचिह्न हृदये विधृत्य । सिंहासनं स्थापित बान् स सत्रागारान्तरे स्थालतरेण सत्रा।।७८॥ ये स्युर्मनुष्या अतिदीनदुःस्था रोगातुरा निष्पतयः पथस्थाः । सत्रालये तत्र च तेऽशनाय क्षणात्समायान्ति मुदं निधाय ॥७९॥ तेनोक्तमारक्षकमानवानां पीठे स्थिति योऽत्र सजेप्रधानाम् । स मारणीयः सहसा भवद्भिः खड्गप्रहारैर्बहुशौर्यवद्भिः ।।८०।। अथो सुभूमेन कदाचिदम्बा पृष्टा सुशिक्षाविधिनिविलम्बा । एतद्वनस्थाम्युडुपप्रमाणः किमस्ति लोकोऽयमथाप्रमाणः ॥८१॥ तदा तयोक्तः सकलोऽप्युदन्तो वत्रा समं रामकृतोग्रमन्तोः । श्रीहस्तिनापूर्वरतोऽत्र नंष्टवा समागताऽहं स्वमति हि दृष्ट्वा ।।८२।। प्रच्छन्नवृत्त्या स्थितया त्वमत्र मया प्रसूतो गहनेषु पुत्रः । सुगुप्तवृत्त्यैव हि तिष्ट तत्त्वं मा रामपर्शार्लभसेऽतिथित्वम् ।।८३।। श्रुत्वेत्युदन्तं हृदि रुप्यमाणस्तस्तापसैरप्पतिवार्यमाण: 1 ततो विनिर्गत्य ययावहंयु: स हस्तिनापूःप्रवरे शुभंयुः ।।८४।। आहारवाञ्छा हृदये च धृत्वा सत्रालयान्तः स्थितवान् स गत्वा । न यावदाप्नोत्यशनं विषण्णरतत्रासने तावदसो निषण्णः ।।८५11 मुक्त्वा तदाक्रन्दरवं प्रणेशे कुव्यन्तरी तस्य पदप्रवेशे । भोक्तुं प्रवृत्तः परमानरूपा दंष्ट्राः स ता मिष्टसितासरूपाः ॥८६॥ अत्रान्तरे 111३०४॥ तीक्ष्णतः कृपाणरयोमयैर्मदगरमिथबाणैः। तं मारयन्ति स्म दृढप्रहारैरारक्षकाः कुन्तकुठारवारैः ॥८७॥ विद्याभृता तेन तदा समग्रा विद्याबलानिर्दलितास्त उग्राः । उपेयिबाँस्तत्र तदा स्वयं स ज्ञात्वेति रामः सरसीव हंस: 11८८॥ रथावहस्त्यादि विमुक्तदैन्यं साथै गृहीत्वा चतुरङ्गसन्यम् । सेव्यः समुद्घाटितखड्गलक्षः सन्नद्धवद्धः सुभटः सुददोः ।।८।।