________________
॥८॥
अथ स धर्ममार्गस्तदैव प्रकटीस्यायदाऽसत्या भाषा नोच्यतेऽतो द्वयमनुगतमेवेदं । तद्यथाभासिज्जए नेव असच्चभासा, न किज्जए भोगसुहे पिवासा ।
खंडिज्जए नेव परस्स आसा, धम्मो य कित्ती इय सप्पयासा ॥९॥ व्याया- भाष्यते नैवासत्यभाषा भाष्यते भाषावर्गणया पुद्गलोपादानेनेति भाषा । सद्भ्यो हिता सत्या तद्विपरीता II त्वसत्या, वचस्तथ्यमेव वाच्यं महासङ्कटेऽपि न पुनरसत्यं कदाचित् । विशेषतस्तु धर्मविषये नानृता वाग्बक्तव्या कालिकार्यवत् । अथ सिद्धान्तोक भाषास्वरूपं कथ्यते-"सच्चाणं भंते भासा पज्जत्तिया काविहा पन्नत्ता? गोयमा चउ. विहावि पत्तेयं दसविहा पन्नत्ता तंजहा ___सत्या भाषा दशधा-जणवय १ संमय २ ठवणा ३ नामे ४ रुये ५ पड़त्चसच्चे ६ अ । ववहार ७ भाव ८ जोगे ९ दसमे ओबम्मसच्चे १० य ॥१॥" कंकणादिषु पयः पिचं नीरमुदकमित्यादि जनपदसत्यं १ । कुमुदादीनां समेऽपि पङ्कसंभवे लोकस्यारविन्दानामेव पङ्कजत्वं सम्मतमिति सम्मतसत्यं २ । लेप्यादिषु अहंदादिस्थापना स्थापनासत्यं ३ । कुलमवर्द्धयन्नपि कुलवर्द्धन इति नामसत्यं ४। लिङ्गधार्यपि व्रतीत्युच्यते तद्रुपसत्यं ५ । प्रतीत्यसत्यं यथाइनामिकाया इतरेतरामाश्रित्य दीर्घत्वं हस्वत्वं च ६। तृणादौ दह्यमाने गिरिदह्यते इति व्यवहारसत्यं ७ भावसत्यं यथा शुक्ला बलाकेंति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णस्योत्कटत्वात् ८ । दण्डयोगाद्दण्डीति योगसत्यं ९। समुद्रवत्तटाक इत्यौपम्यसत्यं १० ।
11८२)